________________
सर्गः] टीकया सहितम् सर्वजनेभ्यो हिताः, पुनः किंलक्षणाः ? शुभलोभवन्तः शुमे मङ्गलादिकार्ये लोभसंयुक्ताः ॥ ३०॥ .
शचीमुखा अप्सरसो रसोर्मि
प्रक्षालनापास्तमला ननु त्वाम् । तदा ददाना धवलान् सुवाचा.. __माचार्यकं बिभ्रतु मानवीषु ॥ ३१॥ शची० हे नाथ ! तदा तस्मिन्नवसरे शचीमुखा अप्सरस इन्द्राणीप्रमुखा देवांगना मानवीषु स्त्रीषु सुवाचां शोभनवाणीनां आचार्यकं आचार्यकर्म बिभ्रतु । किं कुर्वाणा: १ शचीमुखा अप्सरसः ? त्वां अनु पश्चाद्धवलान् ददानाः । त्वां अनु इति प्रतिपर्यनुयोगे द्वितीया । किंलक्षणान् धवलान् ! रसोर्मिप्रक्षालनापास्तमलान् , रसः शृङ्गारादिस्तस्योर्मिभिः कल्लोलैः १२ प्रक्षालनेन निराकृतमलान् ॥ ३१ ॥
खरंगणेऽकारि चिरं खरंगा__ यो रम्भया नृत्यपरिश्रमः प्राक् । अग्रे भवत्संभविता तदानी
मभ्यासलभ्या फलसिद्धिरस्य ॥ ३२॥ खरं० रम्भया रम्भानाम्न्या . देवांगनया खरंगणे १८ खाँगणे खरंगात् आत्मीयोल्लासात्, यो नृत्यपरिश्रमः, प्राक् पूर्व चिरं चिरकालं अकारि कृतः । अस्य श्रमस्य फलसिद्धिस्तदानी तस्मिन् पाणिग्रहणक्षणे, अग्रे भवत् भवतोऽग्रे संभ-२१ विता भविष्यति, किंलक्षणा फलसिद्धिः ? अभ्यासेन लभ्या प्राप्या ॥ ३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org