SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ९८ जैनकुमारसंभवं [तृतीयः इत्यनेन पदेन आत्मनेपदी ज्ञेयः। किंविशिष्टैर्विमानैर्भूपीठसंक्रान्तसकान्तदेवैः भूपीठे संक्रान्ताः सकांताः सकलत्रा देवा ३ येषां ते भूपीठसंक्रांतसकान्तदेवैः ॥२८॥ अधौतपूतद्युतिवारिधौ ते,. देहे सुरस्त्रीजनदृक्शर्यः। भ्रमन्तु लावण्यतरंगभंगि प्रेढोलनोद्वेलितकेलिरङ्गाः ॥ २९ ॥ __ अधौ० हे नाथ ! तस्मिन्नवसरे सुरस्त्रीजनदृक्शर्यः, ९देवांगनानां दृष्टिरूपमत्स्यस्ते तव देहे भ्रमन्तु । शर्यः समुद्रे भवन्तीति आह, किंविशिष्टे देहे ? अधौतपूतद्युतिवारिधौ अधौता पूता च द्युतिः कान्तिस्तस्य वारिधौ समुद्रे । किं१२ लक्षणाः सुरस्त्रीजनदृक्शर्यः ? लावण्यतरंगभंगिखोलनोद्वेलितकेलिरङ्गाः, तरङ्गलावण्यकल्लोलानां भङ्गिषु विच्छित्तिषु प्रेखोलनं आंदोलनं तेनोद्वेलिता लक्षणया वर्धिताः केलिरजा यासां ता १५ लावण्यतरंगभंगिप्रेङ्खोलनोद्वेलितकेलिरङ्गाः ॥ २९ ॥ श्रीसार्व! जन्यास्तव सार्वजन्या, देवा भवन्तः शुभलोभवन्तः । १८ पुराकृतप्रौढतफाफलानां, विपक्रिमत्वं हृदि भावयन्तु ॥३०॥ श्रीसार्व० हे श्रीसार्व हे श्रीसर्वज्ञ देव ! तव जन्या २१ जन्ययात्रिका भवन्तः सन्तः पुराकृतप्रौढतपःफलानां विपक्रिमत्वं प्राप्तपरिपाकत्वं हृदि भावयन्तु, चिंतयन्तु । भूण २३ चिन्तायां इतिधातोः प्रयोगः। किंलक्षणा देवाः १. सर्वजन्याः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy