SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] टीकया सहितम् पूर्णिमा, कलाभृतश्चन्द्रस्य प्रिया त्वां भजते, सोऽपि भास्करो भवेत् , राकापि तमो विलासस्य अभूमिर्भवति ॥ २६ ॥ अवीवृधद्यां दधदङ्कमध्ये, नाभिः सनाभिर्जलधेर्महिम्ना । प्रिया सुनंदापि तवास्तु सा श्री, हेरेरिवारिष्टनिषूदनस्य ॥ २७॥ अवी० नाभियाँ सुनंदां अंकमध्ये उत्संगोपरि अवीवृधत् वर्धयति स्म । किंलक्षणो नामिः ? महिना विस्तारेण जलधेः समुद्रस्य सनाभिः सदृशः । सा सुनंदा तव प्रियास्तु ।९ कस्येव ? हरेर्नारायणस्येव, यथा हरेः श्रीलक्ष्मीः प्रिया स्यात् । किंविशिष्टस्य तव हरेश्च ? अरिष्टनिषूदनस्य अरिष्टं विघ्नं पक्षे अरिष्टनामा दैत्यस्तं निषूदयति, विनाशयति इति अरिष्ट-१२ निषूदनस्तस्य । तस्मिन् समये हरिर्नास्ति कथं तद्विशेषणम् ? परं भाविनि भूतवदुपचार इति न्यायो ज्ञेयः ॥ २७ ॥ कन्ये इमे त्वय्युपयच्छमाने, जाने विमानस्त्रिदिवेषु भाव्यम् । भूपीठसंक्रान्तसकान्तदेवै. रेकैकदौवारिकरक्षणीयैः ॥ २८॥ कन्ये. हे नाथ! अहं एवं जाने त्वयि इमे सुमंगलासुनंदे उपयच्छमाने परिणयति सति त्रिदिवेषु स्वर्गेषु विमानैरेकैकेन दौवारिकेण प्रतीहारेण रक्षणीयैः रक्षितव्यैर्भाव्यम् । उपपूर्वोऽयं धातुः उपात् 'यमः खीकारे' (सि० ३।३१५९)२२ जै० कु. ७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy