SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभव [ तृतीयः " स्त्रीसमूहं चलं चंचलं किमु किं ध्यायसि ? यथा किंशब्दस्तथा किमुशब्दोऽप्यस्ति । नैगम १ संग्रह २ व्यवहार ३ ऋजुसूत्र ३४ शब्द ५ समभिरूढ ६ एवंभूतेषु ७ सप्तनयेषु संग्रहनयलक्षणमिदम् - 'सद्रूपतानतिक्रान्तः खखभावमिदं जगत् । सत्त्वरूपतया सर्वं संगृह्णन् संग्रहो मतः । यत् सर्वा अपि स्त्रियश्चपल६ खभावा इति, त्वं लतासु वल्लीसु कोशातकी कल्पलते घींसोटिका - कल्पवल्ल्यौ दृष्ट्रा विश्वं व्यवहारसारं अच्च जानीहि, 'अंचू गतौ च' परं सर्वे गत्यर्था ज्ञानार्थ इति ज्ञेयं । एवं ९ स्त्रियो हि काश्विद्भव्याः काश्चिन्न भव्याश्च । व्यवहारलक्षणं चेदम्- 'व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थितां । तथैव दृश्यमानत्वात् व्यापारयति देहिनः' इति ॥ २० ॥ " १२ १५ ९४ २२ किं शंकसे दारपरिग्रहेण 2, विरागतां निर्वृतिनायिकायाः । प्रभुः प्रभूतेऽप्यवरोधने स्या नागः पदं लुम्पति न क्रमं चेत् ॥ २१ ॥ किं० हे नाथ ! त्वं दारपरिग्रहेण कलत्रादरणेन निर्वृतिनायकायाः मुक्तिस्त्रियाः विरागतां नीरागत्वं, किं शंकसे ? १८प्रभुः स्वामी प्रभूते प्रचुरेऽप्यवरोधने अन्तःपुरे आगः पदं अपराधस्थानं न भवति, चेत् यदि, क्रमं न लुंपति । सांप्रतं पाणिग्रहणं कुरु क्रमेण पश्चात्तामपि भजेरिति भावः ॥ २१ ॥ अद्यापि नाथः किमसौ कुमारो, निष्कन्यकं किं वरिवर्त्यवन्याम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy