SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् ब्रह्मास्त्रभाजः । ब्रह्मास्त्रशब्देन अस्खलितशस्त्रमुच्यते, उक्तं च 'केनापि स्खलितुं यन्न शक्यते कापि सर्वथा । तद्ब्रह्मास्त्रं परिज्ञेयं यथा चक्रं हि चक्रिणः' । किंलक्षणो मारः। कुसुमास्त्रयोधी कुसुमायुधेन पुष्पायुधेन युध्यतीति कुसुमास्त्रयोधी । अथवा विरोत्स्यते यदि विरोधं करिष्यति तद्बहुक्त्या खलु पूर्यताम् । स मारः बलिस्पर्धफलं बलवता सह स्पर्धायाः ६ फलं खयं भोक्ता भोक्ष्यति, यथा स्पर्धाशब्दस्तथा स्पर्धशब्दोऽपि ज्ञेयः ॥ १८ ॥ यया दृशा पश्यसि देव ! रामा, इमा मनोभूतरवारिधाराः। तां पृच्छ पृथ्वीधरवंशवृद्धौ, नैताः किमंभोधरवारिधाराः॥१९॥ १२ यया० हे देव ! यया हशा अभिप्रायरूपया इमा रामाः स्त्रियो मनोभूतरवारिधाराः कन्दर्पसत्कखड्गधाराः पश्यसि, तां दृशं पृच्छ, एताः स्त्रियः पृथ्वीधरवंशवृद्धौ पृथ्वीधराणां १५ राज्ञां वंशा अन्वयाः, पक्षे पर्वतानां वंशास्तेषां वृद्धौ वृद्ध्यर्थ किं अंभोघरवारिधारा मेघसत्कजलधारा न वर्तन्ते ? अपि तु वर्तन्त एव ॥ १९॥ नयस्य वश्यः किमु संग्रहस्य, बैणं चलं ध्यायसि सर्वमीश । कोशातकीकल्पलते लतासु, दृष्ट्वाश्च विश्वं व्यवहारसारम् ॥ २०॥ नयस्य० हे ईश! त्वं संग्रहनयस्य वश्यः सन् सर्व स्त्रैणं २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy