SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९२ जैनकुमारसंभवं [मृतीयः शठौ० हे महात्मन् ! त्वं इति मास मंस्था इति मा जानीहि । इतीति किम् ? एतौ तारुण्यमारौ यौवनकंदपो जातु कदाचिदपि ३ मम चित्तदुर्ग मेनुं यतेतां उपक्रामतः । किंलक्षणौ तारुण्यमारौ शठौ धूर्ती, पुनः किंविशिष्टौ ! दृढसख्यं गाढमैव्यं यथा भवति तथा समेतौ मिलितौ । पुनः किंविशिष्टौ ? कृतलोकमारौ कृता लोकानां माराः संसारभ्रमणरूपा याभ्यां तौ कृतलोकमारौ ॥ १६ ॥ हत्वा विवेकांबकबोधमंधी। भूतं जगत्पातयदाधिगर्ने । तावत्तव ज्ञानविभाकरस्य, तन्वीत तारुण्यतमो न मोहम् ॥१७॥ १२ हृत्वा० हे नाथ! तावत् तारुण्यतमः यौवनान्धकारं तव ज्ञानविभाकरस्य ज्ञानरूपसूर्यस्य मोहं न तन्वीत न कुर्वीत । किं कुर्वत्तारुण्यतमः ? विवेकांबकबोधं विवेकलोचनज्ञानं हृत्वा १५अन्धीभूतं जगद्विश्वं आधि असमाधि गर्ने विवरे पातयत् , यथा गर्ताशब्दस्तथा गर्तशब्दोऽपि ज्ञेयः ॥ १७ ॥ ब्रह्मास्त्रभाजः कुसुमास्त्रयोधी, ___ मारोऽपि किं ते घटते विरोधी । विरोत्स्यते वा खलु तदहूक्त्या, भोक्ता बलिस्पर्धफलं स्वयं सः॥१८॥ २१ ब्रह्मा० हे नाथ ! मारोऽपि कन्दर्पोऽपि ते तव विरोधी किं घटते ? अपि तु न घटते। किंविशिष्टस्य तव ! ब्रह्मास्त्र२३ भाजः ब्रह्मज्ञानरूपं अस्त्रं भवतीति ब्रह्मास्त्रभाक, तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy