SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् ये सेवकाश्चास्य पिकाः स्खभर्तुः दुःखाग्निना तेऽप्यलभंत दाहम् । किमन्यथा पल्लवितेऽपि कक्षे, तदंगमंगारसमत्वमेति ॥ १४॥ ये० च अन्यत् अस्य मधोर्वसन्तस्य सेवका ये पिकाः कोकिला वर्तन्ते, तेऽपि खभर्तुर्वसन्तस्य दुःखामिना दाहं ६ अलभन्त प्राप्तवन्तः । अन्यथा पल्लवितेऽपि कक्षे वने तदंगमंगारसमत्वं तेषां पिकानां अंगं तदंगं अङ्गारसहशत्वं किं एति गच्छति ॥ १४ ॥ तनोषि तत्तेषु न किं प्रसाद, न सांयुगीना यदमी त्वयीश । स्याद्यत्र शक्तेरवकाशनाशः, श्रीयेत शूरैरपि तत्र साम ॥ १५ ॥ ___ तनोषि० हे ईश! त्वं तत् तस्मात् कारणात् तेषु यौवनादिषु किं प्रसादं न तनोषि न करोषि ? । यदमी यौवनादयस्त्वयि १५ सांयुगीना रणे साधवो न वर्तन्ते । यत्र शक्तेरवकाशनाशः स्यात्, शूरैः सुभटैरपि तत्र साम साम्यगुणः श्रीयेत आश्रीयेत् ॥ १५॥ शठौ समेतौ दृढसख्यमेतौ, तारुण्यमारौ कृतलोकमारौ। भेत्तुं यतेतां मम जातु चित्तदुर्ग महात्मन्निति मास मंस्थाः ॥१६॥ २२ १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy