________________
जैनकुमारसंभवं [तृतीयः किं कृत्वा ? सर्वसहे त्वयि विषये खहेतीः प्रहरणानि मोघा निष्फला दृष्ट्वा, किंलक्षणाः खहेतीः ? जगत्प्राणहृतोऽपि ३ विश्वजीवितं हरंतीति जगत्पाणहृतः ॥ ११ ॥
मधुर्वयस्यो मदनस्य मूच्छा, ... मत्वा ममत्वाद्विषमां विषण्णः । तनोत्ययाची पवनानखंड
श्रीखंडखंडप्लवनाप्तशैत्यान् ॥ १२॥ मधु० वयस्यो मित्रं मधुर्वसन्तो मदनस्य कामस्य विषमां ९ मूच्छौँ मत्वा ज्ञात्वा ममत्वान्मोहाद् अयाची दक्षिणदिक् पवनान्
तनोति विस्तारयति । किंलक्षणो मधुः ? विषण्णो विषादी । किंविशिष्टान् पवनान् ? अखंडश्रीखंडखंडप्लवनाप्तशैत्यान् अख१२ण्डेषु संपूर्णेषु श्रीखण्डानां खण्डेषु चन्दनानां वनेषु प्लवनेनाप्तं
प्राप्तं शैत्यं शीतत्वं यैस्ते अखण्डश्रीखण्डखण्डप्लवनाप्तशैत्यास्तान् ॥ १२ ॥ १५. मत्वा मधोर्मित्रशुचा प्रियस्या
मनस्यमाक्रन्दत यद्वनश्रीः । तदत्र किं कजलविजलाश्रु.
कणाः स्फुरत्युल्ललितालिदंभात् ॥ १३ ॥ मत्वा० तद्वनश्रीराक्रन्दत तारस्वरेण विललाप । किं कृत्वा ? प्रियस्य वल्लभस्य मधोर्वसन्तस्य मित्रस्य शुचा शोकेन आमनस्य २१दुःखं मत्वा ज्ञात्वा । तत् , अत्र अस्यां लोचनश्रियां उल्ललिता
लिदभात् उच्छलितभ्रमरमिषात् , किं कजलविजलाश्रुकणाः, २३ कजलकलुषाश्रुबिन्दवः स्फुरन्ति प्रसरन्ति ॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org