SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीका सहितम् ८९ तद्द्वेहि० हे नाथ ! तत् तस्मात् कारणात् त्वं पाणिग्रहस्यापि आदिः प्रथमो भव । किंविशिष्टस्य पाणिग्रहस्य ! गेहिधर्म दोहदस्य गृहस्थधर्म एव द्रुमो वृक्षः तस्य दोहदसदृशो यथा दाडिमीमुख्यानां धूमपानादि दोहदेन पूरितेन सश्रीकता सफलता स्यात्, तथात्रापि ज्ञेयम् । हे जगत् प्रदीप ! महीं • पृथ्वीं न उपेक्षख, किंलक्षणां महीम् ! तमसि अन्धकार इव युग्मभावे युगलिधर्मे मनां बुडिताम् ॥ वितन्वता केलिकुतूहलानि, ९ ॥ त्वया कृतार्थीकृतमेव बाल्यम् । विना विवाहेन कृपामपश्य तवाद्य न म्लायति यौवनं किम् ॥ १० ॥ वितन्वता ० हे नाथ ! स्वया केलिकुतूहलानि केलिर्जल - १२ क्रीडा, कुतूहलानि गीतनृत्यनाटकादीनि कुर्वता बाल्यं बालत्वं कृतार्थीकृतमेव सफलीकृतमित्यर्थः, अद्य यौवनं किं न म्लायति न हियात् । अपि तु म्लायत्येव । किं कुर्वन् यौवनम् ? १५ विवाहेन विना तव कृपां अपश्यत् ॥ १० ॥ दृष्ट्वा जगत्प्राणहृतोऽपि सर्व सेहे स्वहेतस्त्वयि नाथ ! मोघाः । अनङ्गतां कामभटोsस्य मुख्यः, सखा विषादानुगुणां दधाति ॥ ११ ॥ दृष्ट्वा ० ० हे नाथ ! कामभटोsपि कंदर्पयोधोऽपि विषादानुगुणं २१ विषादस्य योग्यां अनंगतां अङ्गरहितत्वं दधाति । किंविशिष्टः कामभटः ? अस्य यौवनस्य मुख्यः अग्रणीः सखा मित्रम् | २३ Jain Education International For Private & Personal Use Only १८ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy