SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं त्वदागमां भोनिधितः स्वशक्त्या - ssदायोपदेशांबुलवान् गमीरात् । घना विधास्यत्यवनीवनीस्थान्, विनेयवृक्षानभिवष्य साधून् ॥ ७ ॥ त्वदा० घना लोका मेघा वा गभीरात् त्वदागमांभोनिधितः ६ स्वदीयागमसमुद्रतः उपदेशाम्बुलवान् खशतया आदाय गृहीत्वा विनेयवृक्षान् शिष्यवृक्षानभिवृष्य सिक्त्वा, साधून् निर्ग्रन्थान् मनोज्ञान् वा, करिष्यन्ति । किंलक्षणान् विनेय९ वृक्षान् ? अवनीवनीस्थान् पृथ्वीरूपमहाघनस्थितान् । मेघाः समुद्राज्जलं गृह्णन्ति इति लोकरूढिः ॥ ७ ॥ भवद्वयेऽप्यक्षय सौख्यदाने, यो धर्मचिन्तामणिरस्त्यजिह्नः । १२ 4. १५ प्रमादपाटच्चरलुंट्यमानं, २२ त्वमेव तं रक्षितुमीशितासे ॥ ८ ॥ भवद्वये ० हे नाथ ! यो धर्मचिंतामणिर्भवद्वयेऽप्यक्षय अविनश्वर सौख्यदाने अजिह्मः सोद्यमोऽस्ति । त्वमेव तं धर्मचिंतामणिं प्रमादपाटच्चरतस्करलुंट्यमानं रक्षितुं ईशिता से समर्थों १८ भविष्यसि ॥ ८ ॥ तद्वेहिधर्मद्रुम दोहदस्य, पाणिग्रहस्यापि भव त्वमादिः । न युग्मिभावे तमसीव मग्नां, महीमुपेक्षख जगत्प्रदीप ! ॥ ९ ॥ Jain Education International [ तृतीय: For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy