SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीकया सहितम् प्रवर्तयनक्षत दंडशाली, भविष्यसि त्वं स्वयमेव गोपः ॥ ५ ॥ 1 जडा० हे नाथ ! त्वं गोपो राजा गोपालो वा स्वयमेव भवि-३ व्यसि । किं कुर्वन् ? प्रजा लोकान् निजाचारपरंपरासु प्रवर्तयन् । का इव ! यथा गोपो धेनूः गोचरे प्रवर्तयति । किंलक्षणाः जडाशया मूर्खाभिप्रायाः । गाः किंलक्षणा: १६ जले आशयो यासां ताः । किंलक्षणो गोपः ? अक्षतदण्डशाली, दंडः सैन्यं पक्षे लकुटो वा तेन शोभी ॥ ५ ॥ प्रजाः ? कलाः समं शिल्पकुलेन देव, त्वदेवलब्धप्रभवा जगत्याम् । क्क नो भविष्यन्त्युपकारशीलाः, शैलात्सरत्ना इव निर्झरिण्यः ॥ ६ ॥ ८७ Jain Education International कलाः ० हे खामिन् ! कला गीतनृत्यवादित्राद्या द्वासप्ततिसंख्याः । कुंभकार १ लोहकार २ चित्रकार ३ वानकर ४ नापित ५ शिल्पानां पञ्चानामपि पृथक् २ विंशति २ भेदाः १५ स्युः एवं शिल्पशतं स्यात्, ईदृक् शिल्पकुलेन समं जगत्यां पृथ्यां क्व उपकारशीला उपकारखभावाः न भविष्यन्ति अपि तु सर्वत्र भविष्यन्ति । किंविशिष्टाः कलाः ? त्वदेव त्वत्सकाशा - १८ देव, लब्धः प्रभव उत्पत्तिर्याभिस्तास्त्वदेव० । का इव ? सरला निर्झरिण्य इव । यथा शैलात् पर्वतात् लब्धप्रभवा रत्नसहिता नद्यः क्व उपकारशीला न भवन्ति, अपि तु सर्वत्र भवन्त्येव ॥ ६ ॥ For Private & Personal Use Only १२ २२ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy