________________
जैनकुमारसंभवं
साधारणस्ते जगतां प्रसादः, स्वहेतुम्हे तमहं तु हन्त । हृद्यो न कस्येन्दुकलाकलापः, स्वात्मार्थमभ्यूहति तं चकोरः ॥ ३ ॥
साधारण हे नाथ! ते तव प्रसादो जगतां विश्वानां ६ साधारणः सदृशो वर्तते । तु पुनः, अहं, हन्त इति वितर्के, तं प्रसादं खहेतुं आत्मनिमित्तं ऊहे विचारयामि । इन्दुकलाकलापश्चन्द्रस्य कलासमूहः कस्य न हृद्यो नाभीष्टः, अपि तु ९ सर्वस्यैव । चकोरस्तं इन्दुकलाकलापं स्वात्मार्थं अभ्यूहति विचारयति ॥ ३ ॥
१२
१५
८६
२२
भवन्तु मुग्धा अपि भक्तिदिग्धा, वाचो विदग्धाय ! भवन्मुदे मे । अश्मापि विस्मापयते जनं किं,
न स्वर्ण संवर्मित सर्वकायः ॥ ४ ॥
भवन्तु हे विदग्ध्याग्र्य हे विद्वन्मुख्य ! मे मम, वाचो मुग्धा अपि, भवन्मुदे तव हर्षाय भवन्तु । किंलक्षणा वाचः ? भक्तिदिग्धा भक्त्या लिप्ताः । अश्मापि पाषाणोऽपि स्वर्ण संवर्मित१८ सर्वकायः सुवर्णेन संवर्मित ( सर्वकायः ) वेष्टित सर्व कायः वेष्टितसर्वाङ्गः सन्, जनं लोकं किं न विस्मापयते ? सविस्मयं न करोति । अपि तु करोत्येव ॥ ४ ॥
जडाशया गा इव गोचरेषु, प्रजा निजाचारपरंपरासु ।
Jain Education International
[ तृतीयः
For Private & Personal Use Only
www.jainelibrary.org