SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् ॥ अथ तृतीयः सर्गःप्रारभ्यते ॥ अथ प्रसादाभिमुखं त्रिलोका धिपस्य पश्यन्मुखमुग्रधन्वा । अवाप्तवारोचितरोचितश्रि, वचः पुनः प्रास्तुत वक्तुमेवं ॥१॥ अथ० अथानन्तरं उग्रधन्वा इन्द्रः एवं वचः पुनर्वक्तुं जल्पितुं प्रास्तुतं प्रारब्धवान् । किं कुर्वन् इन्द्रः ? त्रिलोकाधिपस्य श्रीआदिदेवस्य मुखं प्रसादाभिमुखं प्रसादस्य अभिमुखं प्रसादं कर्तुकाममिव पश्यन् । किंलक्षणं वचः ? अवाप्तवारो-९ चितरोचितश्रि, अवाप्तवारं प्राप्तावसरं अत एव उचितां युक्तां रोचितां रुचिं प्राप्ता श्रीः शोभा यस्य तत् अवाप्तवारोचितरोचितथि ॥१॥ स्वयं समस्तान्न न वेत्सि भावा स्तथाप्यसौ त्वां प्रति मे प्रजल्पः । इयतु मेघंकरमारुतत्त्व मुदेष्यतः कालबलाद्घनस्य ॥२॥ खयं० हे नाथ ! स्वयं समस्तान् भावान् न न वेसि! न न जानासि अपि तु जानास्येव । तथापि असौ त्वां प्रति मे १८ मम प्रजल्पः धनस्य मेघस्य, मेघंकरमारुतत्वं इयतुं गच्छतु, 'मेघर्तिभयाभयात् खः' (सि० हे० ५।१।१०६) इति सूत्रेण खप्रत्यये खित्यनव्ययारुषोर्मोन्तो हखश्च (सि० हे० ३।२।१११)२१ इति मागमे मेघङ्कर इति सिद्धम् । किं करिष्यतो घनस्य ? कालबलादुदेण्यत उदयं प्राप्स्यतः ॥ २॥ २३ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy