________________
जैनकुमारसंभवं [द्वितीयः हे खामिन् ! 'परदुःखनिरासिनी भवेत् करुणा' ईदृग् करुणा समायोग्ये मयि खात्मनैव खयमेव प्रसादं कुरु ॥ ७२ ।। ३ इति स्तुतिमिरान्तरङ्ग विनयमानयन्वैबुधे
प्रतीतिविषयं गणेऽनणुधियां धुरीणो हरिः। प्रसभनयनेक्षणैर्भगवता सुधासोदरै
रसियत सुधाशनैरपि च साधुवादोर्मिभिः ॥७३॥ इति० हरिरिन्द्रः भगवता श्रीऋषभखामिना प्रसन्ननयनेक्षणैः सप्रसादलोचनावलोकनैरसिच्यत सिक्तः । किंलक्षणैन९यनेक्षणैः । सुधासोदरैरमृतसदृशैः । च अन्यत् । सुधाशनैरपि देवैरपि, साधुवादोर्मिभिः श्लाघारूपकल्लोलैरसिच्यत, किं कुर्वन् हरिः इति पूर्वोक्तमहामुनीनामपि गीरगोचरेत्यादिचतुर्विंशति१२काव्यरूपस्तुतिभिरान्तरङ्गं विनयं वैबुधे गणे देवसमूहे प्रतीतिविषयं आनयन् प्रत्ययगोचरं प्रापयन् । पुनः किंविशिष्टो
हरिः ! अनणुधियां गुरुबुद्धीनां धुरीणो धुर्यः ॥ ७३ ।। १५ इति श्रीअञ्चलगच्छे कविचक्रवर्तिश्रीजयशेखरसूरिविरचित
श्रीजैनकुमारसंभवमहाकाव्यस्य तच्छिष्यश्रीधर्मशेखरसूरिविरचितटीकायां श्रीमाणिक्यसुन्दरसूरिशोधितायां
द्वितीयसर्गव्याख्या ॥ इति ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org