SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् ८३ भवतस्तव ध्यानं निर्विषयं मन इत्येवंरूपे ध्यानमये विभावसौ वैश्वानरे इध्मदशां निःसारेन्धनस्य दशां अवस्थां गमिष्यति यास्यति ॥ ७० ॥ परं न हि त्वत्किमपीह दैवतं, तवाभिधानान्न परं जपाक्षरम् । न पुण्यराशिस्त्वदुपासनात्पर स्तवोपलंभान्न परास्ति निर्वृतिः ॥ ७१ ॥ परं न० हे नाथ ! त्वदपरं त्वत्तो अन्यत् इह जगति किमपि दैवतं नास्ति, त्रिभुवनजनपूज्यत्वात् । इह तव अभिधा-९ नात् तव नामतोऽपरं जपाक्षरं नास्ति, वाग्मनोङ्गैः शुद्धत्वात् । इह तवोपलंभात् उपलक्षणात् परा अन्या निर्वृतिर्मोक्षो नास्ति वीतरागं विना नैव मुक्तिरित्यर्थः ॥ ७१ ॥ १२ तव हृदि निवसामीत्युक्तिरीशे न योग्या __ मम हृदि निवस त्वं नेति नेता नियम्यः । न विभुरुभयथाहं भाषितुं तद्यथाह __ मयि कुरु करुणार्हे स्वात्मनैव प्रसादम् ॥७२॥ तव० हे नाथ ! अहं तव हृदि हृदये निवसामि इति उक्तिजैल्पनं, ईशे खामिनि न योग्या । त्वं मम हृदि निवस निवासं कुरुत, इति अमुना प्रकारेण नेता खामी न नियम्यः न नियंत्रणीयः, यो नेता स्यात् सोऽपरं सेवकादि नियंत्रयति, न तु सेवका नेतारम् । अहं उभयथापि द्वाभ्यामपि प्रकाराभ्यां भाषितुं जल्पितुं न विभुर्न समर्थः । तत् तस्मात् कारणात् २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy