SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८२. जैनकुमारसंभवं [द्वितीयः दक्षिणे शये हस्ते पविचक्रवारिजासयः पविर्वज्रम् , चक्रं, वारिजः, शंखः, असिः खनः, अमी किं धृताः । वज्रमिन्द्र३ पदवीदानायेत्यादिभावः ॥ ६८ ॥ सदंभलोभादिभटब्रजस्त्वया, स्वसंविदा मोहमहीपतौ हते । ६ खयं विलाता, धनवारिवारिते, दवे न हि स्थेमभृतः स्फुलिंगकाः॥६९ ॥ - सदंभ० हे नाथ ! त्वया खसंविदा आत्मीयज्ञानेन मोह९महीपतौ मोहभूपे हते सति सदंभलोभादिभटब्रजः, मायालोभक्रोधमानमदनादिसुभटसमूहः, स्वयं आत्मनैव विलाता विलयं यास्यति, 'लीङ्च श्लेषणे' धातोर्विपूर्वकस्य लीलि१२ नोर्वा (सि० हे० ४।२।६) इति सूत्रेण लास्यते । हि यस्मात् कारणात् धनवारि मेघजलं तेन दवे वारिते सति स्फुलिङ्गकाः स्थेमभृतः स्थैर्यधारिणो न हि वर्तन्ते ॥ ६९ ॥ १५ इषुः सुखव्यासनिरासदा सदा, सदानवान् यस्य दुनोति नाकिनः । सरो भवद्ध्यानमये विभावसा१८ .. ५..वसावसारेध्मदशां गमिष्यति ॥ ७० ॥ । इषुः० यस्य स्मरस्य कंदर्पस्य इषुर्बाणः सदा सदानवान् दानवसहितान् नाकिनो देवान् दुनोति पीडयति, इषुशब्दः २९ स्त्रीलिंगो ज्ञेयः । किंलक्षणा · इषुः ? सुखव्यासनिरासदा, सुखस्य व्यासो विस्तारः तस्य निरासं निराकरणं ददाति सुखव्यासनिरासदा । हे नाथ! असौ स्मरः कामः भवघ्यानमये, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy