SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसूरिकृतम् "यो जैनमन्दिरमुदारविशुद्धबुद्धि विष्टकोपलतणैः कुरुते स्वशक्त्या । रत्नांशुकधुरमनिन्द्यवधूसमेत मामोति कल्पभवनं भुवने स धन्यः॥१॥-वसन्त० जिनभवनं जिनविम्बं, जिनपूजां जिनमतं च यः कुर्यात । तस्य नरामरशिवसुख-फलानि करपल्लवस्थानि ॥२॥-आर्या सन्मृत्तिकामलशिलातलरूप्यदारु सौवर्णरत्नमणिचन्दनचारु बिम्बम् । कुर्वन्ति जैनमिह ये खधनानुरूपं ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥३॥-वसन्त० मट्टीमयं च बिंबं, तिणकट्ठीरेहिं कारए भवणं ।। कासस्स य कुसुमेहि, पूइज्जतं करे मुत्तं ॥४॥"-आर्या इति विंशतितमवृत्तस्यार्थः ॥२०॥ सूत्रम् हे आस्तिकास्त्यजत नास्तिकतां नितान्तं चित्तोन्नतिं भजत लुम्पकतां लुनीत । चैत्यं विधत्त शृणुत प्रविलोक्य तत् सद् भव्या ब्रजन्ति तरसाऽप्यजरामरत्वम् ॥ २१ ॥ व्याख्या हे 'आस्तिकाः अस्ति परलोकः पुण्यं पापं चेति मन्यन्ते ते हे श्रद्धालवः! यूयं नास्तिकतां नितान्तं-अत्यन्तं त्यजत-दूरीकुरुत । नास्ति परलोकः पुण्यं पापं च तस्य भावो नास्तिकता ताम् । पुनः यूयं चित्तोन्नति-दानवीरतां भजत-आश्रयत । यूयं लुम्पकता लुनीत-प्रतिमाद्वेषित्वं मर्दयत । पुनः यूयं चैत्यं विधत्त-कारणे कार्योपचारात् कारयत । पुनः यूयं शृणुत १ देवलोकम् । २ छाया मृत्तिकामयं च बिम्बं तृणकाष्ठेष्टिकाभिः कार्यते भवनम् । काशस्य च कुसुमैः पूजयन्तं करोति मुकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy