SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीजैनधर्मवरस्तोत्रम् स्फुरदगुरुसुमालीसौरभोद्गारसाराः कृतजिनवरपूजा देवरूपा महेभ्याः ॥१॥-मालिनी स्पृशति तिलकशून्यं नैव लक्ष्मीर्ललाटं मृतसुकृतमिव श्रीः शौचसंस्कारहीनम् । अकलितभजनानां वल्कलान्येव वस्त्रा ण्यपि च शिरसि शुक्लं छत्रमप्युग्रभारः ॥२॥"-मालिनी इति प्रतिमाशतकवृत्तौ । स्थापनाभक्तितो दमयन्त्या कष्टं निवारितम् । लोकेऽपि (एक)लव्यनाम्ना वनेचरेण कृता मृण्मयी द्रोणाचार्यमूर्तिः सम्यक् सेविता च धनुर्विद्यासिद्धिकरी जाता। इति एकोनविंशतितमवृत्तस्यार्थः ॥ १९ ॥ अथ चैत्यमाश्रित्याहसूत्रम् जैनालया निजयशोनिचया इवैते यैः सम्प्रतिप्रतिमराजगणैः सिताभाः। उच्चैः कृताः शुचिरुचेऽद्भुतमत्र तैश्च __ गच्छन्ति नूनमध एव हि बन्धनानि ॥ २०॥ व्याख्या हे 'शुचिरुचे' शुचिः-निर्मला रुचिः-धर्मेच्छा यस्य स तस्य सम्बोधने । जिनस्य इमे जैनाः, जैनाश्च ते आलयाश्च जैनालयाः यैः सम्प्रतिप्रतिमराजगणैः सम्प्रतिनाम्ना भूपेन प्रतिमैः-सदृशैः च तैः राजगणैः-कुमारपालादिनृपसमूहैः उच्चैः कृताः अत्र कारणे कार्योपचारात् कारिता इत्यर्थः । कथंभूता जैनालयाः १ सितामाः-सुधामिः श्वेतकान्तयः । उत्प्रेक्ष्यते-एते निजयशोनिचयाः-मूर्तिमत्वकीयकीर्तिपुञ्जाः नूनं-निश्चितं अत्र एतत् अद्भुतं-आश्चर्य वर्तते । हि-यसात् कारणात् तैः राजगणैः बन्धनानि-कर्मबन्धनानि अध एव गच्छन्ति । शत्रन्तं पदम् । एवंविधानि कृतानि । अत्र कर्मोक्तिः अर्थवशाद् विभक्तिविपरिणामः। यत्र गृहाघारम्भाः क्रियन्ते तत्र उच्चैः उच्चैः काष्ठडागलकबन्धाः क्रियन्ते कारुकैस्तत्र स्थित्वा उपरितनं कार्य क्रियते । अत्र तु विपरीतम् । अत आश्चर्यम् । तेषां पापबन्धास्त्रुटिता इत्यर्थः । अत्र चशब्दात् तैः जिनालयैः कृत्वा कर्मबन्धनानि अध एव गच्छन्ति-प्रयान्ति । अत्र कर्चुक्तिः । प्राणिनामिति शेष इत्यपि शब्दार्थः । यतः कुसुमश्रेणी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy