________________
श्रीभावप्रभसूरिकृतम्
ज्ञानं च दर्शनमथो चरणं विचिन्त्य पुञ्जत्रयं च पुरतः प्रविधाय भक्त्या ।
चोक्षाक्षतैः कणगणैरपरैरपीह
जैन ० तो ० १०
श्रीमन्तमादिपुरुषं जिनमर्चयामि ॥ ५ ॥ अक्षताः ॥
सन्नालिकेर-पनसा-ऽमलबीजपूर
जम्बीर-पूग-सहकारमुखैः फलैस्तैः ।
Jain Education International
स्वर्गाद्यनल्पफलदः परमप्रमोदाद्
देवाधिदेवमसमप्रशमं महामि ॥ ६ ॥ फलम् ॥
सन्मोदकैर्वटक-मण्डक-शालि-दालि
मुख्यैरसङ्ख्य रसशालिभिरत्र भोज्यैः ।
क्षुत्तृव्यथाविरहितं स्वहिताय नित्यं
तीर्थाधिराजमहमादरतो यजामि ॥ ७ ॥ भोज्यम् ॥
विध्या (ध्मा ?) तपापपटलस्य सदोदितस्य 'विश्वावलोकनकलाकलितस्य भक्त्या ।
उद्योतयामि पुरतो जिननायकस्य
दीपं तमः प्रशमनाय शमाम्बुराशेः ॥ ८ ॥ दीपः ॥
तीर्थोदकैर्धृतमलैरमलस्वभावं
शश्वनदी-नद-सरोवर-सागरोत्थैः ।
दुर्वारमार-मद-मोहमहाहितार्क्ष्य
संसारतापशमनाय जिनं यजामि ॥ ९ ॥ जलम् ॥
पूजाष्टक (स्तु) तिमिमामसमामधीत्य
योऽनेन चारु विधिना वितनोति पूजाम् ।
इति श्रावकाचारात् पूजाष्टकं लिखितम् ॥
भुक्त्वा नरामरसुखान्यविखण्डिताज्ञं
धन्यः स वासमचिराल्लभते शिवेऽपि ॥ १० ॥"
अथ जिनभक्तिकारकाणां सुकृतचिह्नानि दर्शयति"तिलकयुतललाट भ्राजमानाः स्वभाग्याङ्कुरमिव समुदी (?) तं दर्शयन्ते जनानाम् ।
For Private & Personal Use Only
७३
www.jainelibrary.org