SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७२ अथ पुष्पशुद्धि: श्रीजैनधर्मवरस्तोत्रम् "नैकं पुष्पं द्विधा कुर्यान्न छिन्द्यात् कलिकामपि । पत्रपङ्कजभेदेन, हत्यावत् पातकं भवेत् ॥ १ ॥ - अनु० हस्तात् प्रस्खलितं पुष्पं, लग्नं पादेऽथवा भुवि । शीर्षोपरिगतं यच्च, तत्पूजार्हं न कर्हिचित् ॥ २ ॥ - अनु० स्पृष्टं नीचजेनैर्दुष्टं, कीटैः कुवसनैर्धृतम् । निर्गन्धमुग्रगन्धं वा, तत् त्याज्यं कुसुमं समम् ॥ ३ ॥" - अनु० अथात्र सर्वशुद्धयर्थं पूजाष्टकमाह - "भृङ्गारानीतनीरेण संखाप्याङ्गं जिनेशितुः । रुक्षीकृत्य सुवस्त्रेण, पूजां कुर्यात् ततोऽष्टधा ॥ १ ॥ - अनु० संच्चन्दनेन धनसारविमिश्रितेन कस्तूरिकाद्रवयुतेन मनोहरेण । रागादिदोषरहितं महितं सुरेन्द्रैः श्रीमजिनं त्रिजगतीपतिमर्चयामि ॥ २ ॥ चन्दनम् ॥ जाती-जप- बकुल- चम्पक-पाटलाद्यै मन्दार-कुन्द - शतपत्र - चरारविन्दैः । Jain Education International संसारनाशकरणं करुणाप्रधानं पुष्पैः परैरपि जिनेन्द्रमहं यजामि ॥ ३ ॥ पुष्पम् ॥ कृष्णागुरुप्ररचितं "सितया समेतं कर्पूरपूरसहितं विहितं सुत्तात् । धूपं जिनेन्द्रपुरतो गुरुतोषतोऽहं भक्त्यै क्षिपामि निजदुष्कृतनाशनाय ॥ ४ ॥ धूपः ॥ काष्ठपाषाणनिष्पन्नं, संस्कारा है पुनर्नहि । यच्च वर्षशतातीतं यच्च स्थापितमुत्तमैः ॥ ६ ॥ तद् व्यङ्गमपि पूज्यं स्याद्, बिम्बं तन्निष्फलं नहि । तच्च धार्यं परं चैत्ये, गेहे पूज्यं न पण्डितैः ॥ ७ ॥ चतुर्भिः कलापकम् प्रतिष्ठिते पुनर्बिम्बे, संस्कारः स्यान्न कर्हिचित् । संस्कारे च कृते कार्या, प्रतिष्ठा तादृशी पुनः ॥ ८ ॥ " यदुक्तम्- "संस्कृते तुलिते चैव दुष्टस्पृष्टे परीक्षिते । हृते बिम्बे च लिङ्गे च प्रतिष्ठा पुनरेव हि ॥ ९॥" १ 'जनार्दष्टं' इति ख- पार्श्वस्थपाठः । २ अतः परं सर्वाणि पद्यानि वसन्ततिलकाच्छन्दसि वर्तन्ते । ३ कपूर्रयुक्तेन । ४ जासूदः । ५ शर्करया । For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy