________________
६८
श्रीजैनधर्मवरस्तोत्रम्
चूडामणिः महान् देव ईश्वरो वर्तते, यदि स्नात्वा शुचिर्भूत्वा आशातनां मुक्त्वा सेव्यते तदास्तुमनोवाञ्छितं भवति । तेनोक्तम् — एवं करिष्यामि, परं सर्वे देवाः सस्त्रीकाः सायुधा अन्यत्र विलोक्यन्ते, मम देवोऽयं तद्विपरीत इति हीनत्वं दृश्यते । ततोऽन्यया ढेलडिकया उद्वाह्यते तदा वरम् । यतः
"अपत्या १ न (न्य ? ) ङ्गशुश्रूषा २, भोगः ३ स्वजनगौरवम् ४ । गृहकर्मप्रयोगश्च ५, स्त्रीवल्यां फलपञ्चकम् ॥ १ ॥" - अनु० अस्मदादिवत् । तदा मुनिना चिन्तितम्, यतः - "श्यामश्वेतारुणाङ्गा जलधरणिधरोत्फुल्लपङ्केरुहस्था मो-मा-सावित्र्युपेता रथचरणपिनाकोग्रहुङ्कारशस्त्राः । देवा द्वित्र्यष्टनेत्रा जगदवनसमुच्छेद नोत्पत्तिदक्षाः
प्रीता वः पान्तु नित्यं हरि-हर- विधयस्तार्क्ष्यगोहंसपत्राः || १ ||" - धरा इति । जिनस्तुतय:
"प्रशमरसनिमनं दृष्टियुग्मं प्रसन्नं
वदनकमलमङ्कः कामिनीसङ्गशून्यः । करयुगमपि धत्ते शस्त्रसम्बन्धवन्ध्यं
तदसि जगति देवो वीतरागस्त्वमेव ॥ १ ॥ " - मालिनी
परं मूर्खस्त्वनुकूलवृत्त्या ग्राह्यते इति विचार्य मुनिना प्रोक्तम् — हे कार्षुक ! अस्य द्वे स्त्रियौ स्तः । ते? एका राजीमती, अपरा केवलज्ञानलक्ष्मीः । कुत्र ते स्तः ? राजीमती त्वधुना निर्याणनगरे स्थित पितृगृहेऽत्यन्तसुखिनी स्थिताऽस्ति । अपरा त्वस्य समीपे प्रच्छन्ना वर्तते, यथा महादेवस्य पार्वती प्रत्यक्षा, गङ्गा तु न । यतः
“પાર્વતીનઇ ઈશ કલહ લગ્ગા રતિકાર, જટામુગટમાંઢું ગંગગૌરી અધોગનિવારણ, પ્રગટ કરઇ નારદ તામ ઉમચા કાપી′ઇ, રે ભરડા ભગવાન! વયણ તવ કવણુ પતીજઇ, શિવસ્યું શક્તિ રુસી રહી હર મનાવા ટલવલઇ, શશીસહીત ઇરા પાએ પડઇ, તામ ચન્દને ઉર મિલઇ ॥૧॥”
१ पानीय- पर्वत - विकसितपश्नस्थायिनः । २ लक्ष्मी - पार्वती-सावित्रीसमेताः । ३ चक्र-धनुष्योप्रहुङ्कारायुधाः । ४ गरुड - वृषभ - हंसवाहनाः । ५ मोक्षपुरि । ६ सुस्थितः - सिद्ध: - परमेश्वरः स एव जनकः तस्य गेहे । ७ तात्पर्यम् -
पार्वत्या ईशेन सह कलहो लग्नः (जातः) रतिकारणं जटामुकुटे गङ्गागौरीं अर्धाङ्गनिवारणार्थं प्रकटयति नारदः । तदा उमा कुप्यति - हे भरटक ! भगवन् ! वचनं तव केन प्रतीत्यते ? । शिवेन शक्तिः (उमा) रुष्टा जाता । हरो मनोवालनार्थ स्वरयति, शशिसहित ईशः (पार्वत्याः) पादे पतति तदा चन्दनं उरश्च मिलति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org