________________
श्रीभावप्रभसरिकृतम् विंटवाई सुरभि, जलथलयं दिवकुसुमनीहारिं।
पय(इ)रिति समंतेणं, दसद्धवणं कुसुमवासं(बुटिं ?)॥१॥"-आर्या (इ)ति सिद्धान्तवचनात् । एवं श्रुत्वाऽपरे संहृदयंमन्या उत्तरयन्ति-यत्र व्रतिनस्तिष्ठन्ति, न तत्र देशे देवाः पुष्पाणि किरन्तीति । एतदप्युत्तराभासम् । न खलु तपोधनैः काष्ठीभूतावस्थामालम्ब्य तत्रैव देशेऽवश्यं स्थातव्यं, प्रयोजने गमनागमनादेरपि तत्र सम्भवादिति । तस्मानिखिलगीतार्थसम्मतमिदमुत्तरमत्र दीयते । यथैकयोजनमात्रायां समवसरणधरणावपरिमितसुरासुरादिलोकसंमदेऽपि न परस्परमाबाधा काचित् तथा तेषामाजानुप्रमाणक्षिप्तानाममन्दमकरन्दसम्पत्सम्पादितानन्दमन्दारमुचु(मच)कुन्दकुमुदकमलदलमुकुलमालतीविकचविचकिलप्रमुखकुसुमसमूहानामप्युपरि संचरिष्णौ स्थास्त्रौ च मुनिनिकरे विविधजननिचये च न काचिदाबाधा, प्रत्युत सुधारससिच्यमानानामिव बहुतरः समुल्लासस्तेषामपिनिपद्यते, अचिन्तनीयनिरुपमतीर्थकरप्रभावोजृम्भमाणप्रसादादेवेति" प्रवचनसारोद्धार(द्वा० ३९)वृत्तौ श्रीसिद्धसेनसूरिविरचितायां लिखितम् । इति चर्चा सम्पूर्णा ॥ ___ अथात्र द्रव्यस्तवोपरि दृष्टान्तः–'मरुस्थल्या 'धूलिया'ऽभिधाने ग्रामे एकः शकडनामा कौटुम्बिको वसति स । स प्रावृषि हलं वाहयति तदा 'ढेलड'नामतस्तत्क्षेत्रात् जिनबिम्बं प्रकटितं दृष्ट्वा तेन मूर्खशेखरेण चिन्तितम्-किमयं शिशुक्रीडनको ढेलडकः? परं नवीनो दृश्यते, तेन मदीयग्रामे किञ्चिदेव स्थानं नास्ति, ततोऽयमेव ढेलडकदेवोऽस्तु इति कृत्वा तत्र समीपस्थजीर्णशून्यलघुदेवकुलिकायां स्थापितः । यदा हलिको भुङ्क्ते तदा पूर्व तं निमत्रयते। कतिषुचित् दिनेषु गच्छत्सु कश्चित् साधुार्गवशात् तत्क्षेत्रतरुच्छायामासीनः तदा हलिना मां हां इति प्रत्युक्ते मुनिना धर्मलाभोऽभाणि । हली तु भोजनार्थमुपविष्टः। पुत्रेण ढेलडकदेवमानाय्य वक्ति स-भो ढेलडक! देव ! करा थाहरी सेव ।
बाटी पी(खी)च सालणो, वीच(इं) रच्छा(ब्बा) त्रास
घइसां छासि आरोगो, थांहरो स्वर्गनिवास" इत्युक्त्वा भोजनं कृतवान् । यतिना प्रोक्तम्-किमिदम् । तेनोक्तम्-क्षेत्रात् प्रकटितो ढेलडकोऽयं देवः । मुनिना चिन्तितम्-अहो! अयं जडबुद्धिः। असै सर्वथा सत्यं कथ्यते तदा अयं न मन्यते, यतो मूढः शनैः शनैर्मार्गमायाति । ततो मुनिहलिनमाह-हे हलिन् ! मया विज्ञातोऽयं देवः, शृणु-त्रिभुवनभूषणं 'यादव'वंशशिरोरत्नं शङ्खलाञ्छनः ब्रह्मचारि१ छाया
वृत्तस्थायिनी सुरभि जलस्थलजानां दिव्यकुसुम(गन्ध)निर्झरिणीम् ।
प्रकिरन्ति समन्ततो दशार्धवर्णा कुसुमवृष्टिम् ॥ २ आस्मानं सहृदयं-पण्डितं मन्यन्ते ते, पण्डिताभिमानिनः। ३ अतिशयेन भवति । ४ नमाम्यहम्' इति तात्पर्यम्। ५ तात्पर्यम्-कुर्वे तव सेवाम् ।
६ तात्पर्यम्बाटी-बीच-सालणो (इति मारवाडीनाम्नो भोज्यपदार्थान् ) मध्ये रब्बा (राब इति गूर्जरे) त्रासे (पात्रविशेषे)घइसा (घेस इति गूर्जरे)तकं (च) भुश्व, तव स्वर्गे निवासः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org