________________
श्रीजैनधर्मवरस्तोत्रम् श्रद्धालुर्दशमं बहिर्जिनगृहात प्राप्तस्ततो द्वादशं मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ १॥-शार्दूल० संयं पमञ्जणे पुन्न, सहस्सं च विलेवणे । सयसहस्सं मालाए, अणंतं गीयवाइए ॥ २॥-अनु० पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः।
जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः॥३॥"-अनु० इत्यादि ॥
अथात्र विशेषज्ञापनार्थ प्रथमं पाशचन्द्रमतं लिख्यते-यदिन्द्राभिषेककारणे सुपर्वाणोऽहमहमिकयौदारिकजलपुष्पसिद्धार्थादीनि गृह्णन्ति जिनपूजां तु न तेनोपचारेण कुर्वन्तीति सुरपुष्पेषु त्रसासम्भवोऽम्लानत्वं च हेतुश्चेद्धिसापरिहार एवायं धर्माभ्युदयाय प्रगल्भते । समवसरणे च वैक्रियाण्येव पुष्पाणि देवाः प्रभोरग्रे देशनो| विकिरन्ति । मण्यादिरचनाऽप्यचित्तैव, उक्तं च राजप्रश्नीयोपाङ्गे–'पुप्फबद्दलयं विउवंती'त्यादि नवकमलरचनाऽप्यचित्तैव ज्ञेयेति । एतन्मतमसत् । यतः-पुष्पवर्दलविकुर्वणमपि विकिरणमात्रसम्पादनार्थ अधोवृन्तजलस्थलजपुष्पविकिरण
खैव पाठसिद्धत्वात् न पूजाङ्गे सचित्तशङ्का तदृष्टान्ते नानेया प्रतिमाशतकवृत्तौ द्वानवतितमकाव्यादिवृत्तौ श्रीयशोविजयोपाध्याया इति । अथ पद्मानन्दकाव्येऽप्यमरचन्द्रकवय आहुः, यतः
"प्रासुकजानुमितानि, स्थलजलभवपञ्चवर्णसुरभीणि।
व्यकिरन् व्यन्तरदेवा, न्यकृतवृन्तानि तत्र कुसुमानि ॥१॥"-गीतिः अत्र प्रासुकशब्देन द्वीन्द्रियादित्रसजीवरहितानि निरवद्यानि करटनादिदोषवर्जितानि पुष्पाणि, नहि पुनरचित्तानीत्येवं भावनीयम् । प्रथमं अत्र श्लोकेऽपि स्थलजलभवकुसुमानां पाठसिद्धत्वात् इति चतुर्दशसर्गे विलोकनीयम् । पुनर्निस्तुषं दर्शयति । "तथा आयोजनभूमिकुसुमवर्षविषये कृपार्टीकृतचेतसः केचन प्रेरयन्ति-ननु विकचकान्तकुसुमप्रचयनिचितायां समवसरणभुवि जीवदयारसिकान्तःकरणानां श्रमणानां कथमवस्थानगमनादिकं कर्तुं युज्यते, जीवविधातहेतुत्वादिति । तत्र केचिदुत्तरयन्ति-तानि कुसुमानि सचित्तान्येव न भवन्ति, विकुर्वणयैव देवैस्तेषां विहितत्वादिति । एतच्चायुक्तम् । यतो न तत्र विकुर्वितान्येव पुष्पाणि भवन्ति, जलजस्थलजानामपि कुसुमानां सम्भवात्, न चैतदनार्षम्
१ छाया
शतं प्रमार्जने पुण्यं, सहस्त्रं च विलेपने ।
शतसहस्रं मालायां, अनन्तं गीतवादने ॥ २ समवसरणभूमिकायाम्। ३ पुष्पवर्दलं विकुर्वन्ति । ४ विपर्ययकृपा.' इति क-पाठः। ५ उत्तरं कुर्वन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org