________________
श्रीभावप्रमहरिकृतम् सूत्रम्
सावद्यजोऽपि निरवद्यफलानुबन्धा
दर्चाविधिः सुमभरेण वरः पुरोगः । साध्योऽपि शब्दनिपुणैः किमु सिंहशब्दो
नो गृह्यते विविध! वर्णविपर्ययेण ? ॥ १८ ॥ व्याख्या-अर्चाविधिः-पूजाविधिः सावद्यजः सदोषजातोऽपि स्वरूपहिंसात्वात् सुमभरेणपुष्पप्रकरण पुरोगः-सर्वानुष्ठानस्य अग्रेसरः वरः-श्रेष्ठो वर्तते । कस्मात् ? निरवद्यफलानुबन्धात्निष्पापफलपरम्पराप्तेः । दृष्टान्तमाह-विशिष्टा विधा-अनुष्ठानक्रिया यस्य सः तस्य सम्बोधने हे विविध! (शब्द)निपुणैः-वैयाकरणैः वर्णविपर्ययेण साध्योऽपि सिंहशब्दः पुरोगः जिनादिशब्दस अग्रगतः वरः-श्रेष्ठः किमु नो गृह्यते ? अपि तु गृह्यत एव । कथं० सिंहशब्दः? सावधजोऽपि, हिनस्तीति निरुक्तिवशात् , यथा जिनसिंहः अत्र निरवद्यफलानुबन्धात्-श्रेष्ठवाचित्वात् । यतो हेमसूरयो ब्रुवन्ति-"स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः। सिंहशार्दूलनागाद्याः" इत्यादि (अभिधानचिन्तामणेः) षष्ठकाण्डे (श्लो० ७६) जिनसिंहः मुनिव्याघ्रः प्रशस्यार्थप्रकाशक इति । अत्र विरताविरतानां श्रावकाणामपेक्षया "भावत्थवाओ दवत्थओ बहुगुणो" जिनपूजाफलं दानादिकसमानमित्यादि वक्तव्यता महानिशीथतृतीयाध्ययनतो ज्ञेया । वजा(सावद्या)चायः पञ्चशतमितान् शिष्यान् प्रति चन्द्रप्रभतीर्थयात्रा कारयिष्याम्यहमिति "जैइवि जिणालयं तहवि सावजमिणं" इति सावद्याचार्यकथायामिति, स्वर्णमयं जिनायतनमित्यादि सर्वत्र महानिशीथः । एवं द्रौपदी ज्ञातायां (अ० १६, सू० ११९), अम्बरपरिव्राजक औपपातिके (सू० ४०), जङ्घाचारणविद्याचारणौ भगवत्यां (श० २०, उ०९), चैत्यभक्तिदेशमाङ्गे, सम्यग्भावितप्रतिमाभक्तिः व्यवहारसूत्रे इत्येवं सर्वैरानन्दादिभिः श्रावकैः प्रतिमा पूजिताऽस्ति । तत्फलं च
"यास्यामीति जिनालयं स लभते ध्यायंश्चतुर्थ फलं
षष्ठं चोत्थित उत्थितोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । १ छाया
भावस्तवाद् द्रव्यस्तवो बहुगुणः । २ छाया
यद्यपि जिनालयं (मन्दिर) तथापि सावद्यमिदम् । ३ 'उपपातिकायां' इति ख-पाठः। ४ प्रश्नव्याकरणे संवरद्वारे । ५ सन्तुल्यतां यदुक्तं श्रावकाचारे
"यास्यामीति हृदि ध्याय-चतुर्थफलमभुते । उत्थितो लभते षष्ठं, त्वष्टमं पथि च ब्रजन् ॥ १॥ दृष्टे चैत्ये दशम, द्वारि द्वादशमं लभेत ।
मध्ये पक्षोपवासस्य, मासः स्याच जिनार्चया ॥२॥" जैन स्तो०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org