________________
६४
श्रीजैनधर्मवरस्तोत्रम् विप्रतार्य आर्यदेशमागत आर्द्रकुमारः। प्रतिमामभयाय सम्प्रेष्य सप्तक्षेत्रे धनं दत्त्वा मुनिलिङ्गं गृहीतवान् । भोगकर्मास्ति इति खस्थया देवतया निषिद्धोऽपि शुद्धो यतिः प्रत्येकबुद्धो जातः॥
एकदा विहरन् 'वसन्त पुरे देवदत्तश्रेष्ठिधनवतीभार्याङ्गजा श्रीमती नानी सा च पूर्वभवबन्धुमतीजीव इति यत्रास्ति तन्नगरदेवकुले प्रतिमया स्थितः । बालाभिः समं रममाणया श्रीमत्या वृतः साधुः, देव्या रत्नवृष्टिः कृता । तस्मात नष्टो मुनिः। भूपेन सा रत्नवृष्टिः श्रीमत्यै दत्ता । पितुराज्ञां गृहीत्वा दानशालायां स्थिता । कतिचिदिने दिङ्मूढं तं मुनिं तत्रागतं वस्त्राञ्चलेन जग्राह । भूपेन पौरजनैश्च हठात् तया समं परिणायितः सः । सुते द्वादशवर्षप्रमाणवयसि जाते तेनोक्तम्-प्रवजिष्याम्यहमधुनेति । तदा तर्कुमादाय कर्तिर्तुमुपविष्टा । पुत्रेणोक्तम्किमिदं कर्म निर्मासि मातर्निर्धनोचितम् ? । तयोक्तम्-तव पिता व्रतं लाति । तेन मन्मनाक्षरेण सूत्रतन्तुभिर्बद्धो जनकः । पुत्रस्नेहात् सूत्रतन्तुमितद्वादशवर्षाणि गृहे स्थितः। ततो दीक्षां लात्वाऽयं व्यहरत् । भूपभीतास्ते पञ्चशतसुभटास्तत्रायाताश्चौरवृत्तयो मिलिताः अस्य मुनेः । अथ तान् प्रव्रज्य तैः सह वीरं नन्तुं 'राजगृह' प्रतिचचाल स आर्द्रकमुनिः । अन्तराले मङ्खलीपुत्रो मिलित एकान्तनियतिवादी
"कालो सहाव नियई पुवकयं पुरिसकारणे पंच ।
समवाए सम्मत्तं एगंते होइ मिच्छत्तं ॥ १॥"-(उपदेशपदे) इत्यादिना निरुत्तरीकृतो मुनिना । ततोऽग्रे तापसाश्रमं गतः । ततो हस्तिभक्षकतापसैः शृङ्खलाबद्धहस्ती मुनिदर्शनात् त्रुटितबन्धनो मुनिं नत्वा वनं ययौ ।
__"पृष्टाश्च ते वदन्ति स्म, दन्तिक्षंणन(भक्षण ?)कारणम् ।
___ रक्षार्थमन्यजीवाना-मेको हस्ती निहन्यते ॥ १॥"-अनु० तापसानपि प्रतिबोध्य वीरजिनान्ते प्रैपीत् मुनिः। वीरेण दीक्षितास्ते आर्द्रकमुनिमाहात्म्यं श्रुत्वा श्रेणिकोऽभयेन सह तत्रागत्य नत्वा आर्द्रकसाधुमवादीत-महचित्रं मेऽस्ति हस्तिमोक्षणात् । ऋषिणोक्तम्-किं चित्रमेतत् ? मम तन्तुपाशविमोक्षणं तु चित्रं, तत्स्वरूपं राज्ञे निवेदितं, (तत्) श्रुत्वा सर्वे लोका विस्मिताः। पुनः ऋषि गौ-हे अभयकुमार ! त्वयाऽहं समुद्धृतः । ततो मुनी 'राजगृहे' वीरं नत्वा तत्सेवया निरतीचारं व्रतं प्रपाल्य शिवं ययौ । इति आर्द्रककुमारकथालेशः । इति सप्तदशवृत्तार्थः सम्पूर्णः ॥ १७ ॥
१ आकाशस्थितया। २ 'साधु २' इति क-पाठः । ३ छाया
कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारणं पञ्च ।
समवाये सम्यक्त्वं एकान्ते भवति मिथ्यात्वम् ॥ ४ हननहेतुम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org