SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसूरिकृतम् त्वं कथयेत्युक्ते तेन चिन्तितं 'शिरच्छेदे तत्त्वं वाच्य मित्युक्तेः याज्ञिकेन यज्ञकीलकाधस्तात् श्रीशान्तिनाथप्रतिमा दर्शिता । तां च दृष्ट्वा प्रतिबुद्धः शय्यम्भवो दीक्षां जग्राह । क्रमेण प्रभवः शय्यम्भवं स्वपट्टे संस्थाप्य स्वर्ग प्राप । शय्यम्भवमूरिः मुक्तया सगर्भया निजभार्यया प्रसूतमनकनामपुत्रहिताय श्रीदशवैकालिकं कृतवान् । स्वर्ग गतः । जिनबिम्बतो बोध प्राप्तवान् । इति सम्पूर्ण कथालेशः । षोडशवृत्तस्यार्थः सम्पूर्णः॥१६॥ सूत्रम् अर्चा समीक्ष्य सुतरामभयेन मुक्तां मिथ्यात्वमाशु यदनार्यजनोऽप्यमुश्चत् । आर्यस्तदादरभरः कुलजस्ततो नो किं ना मनोविषविकारमपाकरोति ? ॥ १७ ॥ व्याख्या-यतो हेतोः अनार्यजनोऽपि आशु-शीघ्रं मिथ्यात्वं अमुञ्चत् । किं कृत्वा ? सुतरां -अतिशयेन अभयेन मुक्तां-प्रहितां अर्चा-जिनप्रतिमा समीक्ष्य । “अर्चा पूजा प्रतिमाऽपि च" इति हैमः (अनेका० का०२, श्लो०७०) ततो हेतोः आर्य:-अर्यजः नृशब्दस्य ना-नरः किं मनोविषविकारं नो अपाकरोति ? अपि तु निराकरोति । मनसः-चित्तस्य विषमिव विकारं मिथ्यात्वमिति । कथं० ना-नरः? कुलजः। पुनः कथं ना? 'तदादरभर' तस्यां-अर्चायां आदरभरो यस्य सः, तत्सेवातत्पर इति । कः ? आर्द्रकुमारः। तथाहि 'आर्द्रक'देशे 'आर्द्रक'पुरे आर्द्रकभूपतिः। तस्य आर्द्रिका प्रिया । तयोरार्द्रकुमारनामा पुत्रोऽस्ति । जनकेन श्रेणिकाय प्राभृतं मुक्तं तदाऽनेनाभयकुमाराय प्राभृतं रत्नवस्त्रादिकं प्रीतिं दधता पूर्वमदृष्टायाश्रुताय चापि । यतः "यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपा मुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता । अयं कः सम्बन्धो यदनुहरते तस्य कुँमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः॥१॥"-शिखरिणी ततोऽभयेन मुक्तां प्रतिमां दृष्ट्वा जातजातिस्मृतिः-पूर्वभवे सामायिकनामा कुटुम्बी साधुः, स्त्री बन्धुमती साध्वी । सोऽस्यां कामातुरो जातः । तदा व्रतभङ्गभयात् सा (अनशनेन) मृतेति । तदनु सामायिकसाधुरप्यनशनेन मृतः । ततो द्वावपि देवत्वं प्राप्ताविति । पितृमुक्तभटपञ्चशतीं १ 'प्राप्तः' इति ख-पाठः। २ कष्टं क्षयरूपम् । ३ उदयं वृद्धिरूपम्। ४ कर्तृपदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy