________________
श्रीजैनधर्मवरस्तोत्रम् र्गेण क्षपकश्रेण्यारूढेन अन्तकृत्केवलिना भूयते स्मेति । एकदा समवसरणे वीरस कपटाशातनां कुर्वता सेडकदेवेन प्रभुप्रभृतीनां जातानि क्षुतानि निशम्य मर-जीवेत्यादिविषमकथनेन परीक्षितः श्रेणिकः क्रोधातुरः सन् नदीतटे पुनः परीक्षितः । यतः प्रबोधचिन्तामणी
"नायं हित्वा क्रमं नायं, नायमानायमम्बुनि ।
झेषाकर्षमृषि वीक्ष्य, नायं सद्भावतश्युतः ॥ १॥"-अनु० जिनधर्मोपरि दृढमतिं ज्ञात्वाऽमै द्वौ गोलको समर्पयित्वा (समर्प्य ) तिरोभूयते स । तेन भग्नौ गोलको, (ततः) हारः कुण्डले च निर्गतानि श्रीजिनभक्तितः । श्रेणिकोऽये पद्मनाभनामा प्रथमतीर्थकरो भविष्यतीति कथानकलेशः । पञ्चदशवृत्तार्थः सम्पूर्णः ॥ १५ ॥
सूत्रम्
शय्यम्भवः शमधनोक्तिविचारदक्षः
खड्ड्रेन याज्ञिकजने हनने हठोत्थः। तत्त्वस्य रूपकथने द्रुतजातशान्ति
र्यद् विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ व्याख्या-शय्यम्भवो नाम्ना भट्टः तत्त्वस्य कथने सति द्रुतजातशान्तिः शीघ्र विगलितको धत्वात् उपशमयुक्तो बभूव । कथंभूतःशय्यम्भवः ? 'शमधनोक्तिविचारदक्षः शमो धनं ययोस्तौ शमधनौ साधू द्वौ तयोः उक्तिः-वचनं तस्य विचारे दक्षः-निपुणः । यतः "अहो कष्टमहो कष्ट, तत्त्वं न ज्ञायते परं" अहो कष्टमित्याधुक्तिविचारे दक्षः। पुनः कथं० श०१ खङ्गेन याज्ञिकजनेयज्ञोपाध्यायविषये हनने-मारणनिमित्तम् , निमित्तार्थे सप्तमी, हठोत्थः-हठात् उत्थितः। यत्यसात् कारणात् महानुभावाः विग्रह-कलहं शमयन्ति-दूरीकुर्वन्ति । रहस्सं कथानकादवसेयम् । तथाहिश्रीजम्बूखामिपदाम्बुजप्रभापतिः प्रभवप्रभुरस्ति । यतः
"प्रभवोऽपि प्रभुर्जीया-चौर्येण हरता धनम् ।
लेभेऽनाचौर्यहरं, रत्नत्रयं तदद्भुतम् ॥१॥"-अनु० अन्यदा श्रीप्रभवस्वामिना गणे सो चोपयोगो दत्तः । तत्र तथाविधयोग्यशिष्यादर्शने परतीर्थिषु तदुपयोगे शय्यम्भवं भट्ट यजन्तं 'राजगृहे' ददर्श सः । तत्र गत्वा साधुभ्यां "अहो कष्टमहो कष्टं, तत्वं न ज्ञायते परम्" इति वचः श्रावितः । ततस्तेन खड्गं निष्काश्य तत्वं हे याज्ञिक !
१ छिक्काः । २ नये भवं नायम् । ३ नीत्वा । ४ आनायस्तु मत्स्यजालम् । ५ झपा-मत्स्यः । ६ 'मुनि' इति ख-पाठः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org