________________
श्रीभावप्रभसूरिकृतम् "गाहा हुई अणाहा गाहा सर्गे(ग्गे)ण पाडीया ।
धाहा गईउ गाहा नरिंदो रंडावण आवहे गाहा ॥१॥ सा गाथा भोजपण्डितैर्विभावितार्था । नृपेण वेश्यातो मोचापितः कालिदास इति लेशतः कथा ॥ ___ अथ च चण्डप्रद्योतनस्य श्रावकीभूतया वेश्ययाऽभयकुमारोऽपि 'उज्जयिनी नीयते स । कूलवालुको मुनिर्वेश्यया (मागधिकानाम्न्या) कुणिकसत्कया पातितो व्रतात् । पुनः धमिल्लकृतपुण्याद्या अक्करे क्षिप्ताः । तथा च कयाचित् कुट्टिन्या निजगृहबहिः सुप्तः पथिकः क्षत्रियः कश्चित् सधन इति ज्ञात्वा मारणार्थ विषचूर्णभृतनालिका तस्य पुंता(?)न्तः क्षिप्ता । यावत् (सा) मुखवायुना फुक्कां ददाति तावत् तस्य पुण्यप्रारभारात् प्रोद्भूतप्रभूतपायुवायुप्रेरितनालिकाविषचूर्णपूर्णमुखतालुरन्ध्रा सा मृतेति । अतोऽपि कुदेवपूजनं दुष्टम् ॥ इति चतुर्दशवृत्तस्यार्थः ॥१४॥
सूत्रम्
श्रीश्रेणिकादिनृपवद् बहवो भवेयुः
जीवा जिना जिनपभक्तिभरेण भव्याः!। सचूर्णपूर्णविभवेन भृता भव(ज)न्ते
चामीकरत्वमचिरादिव धातुभेदाः ॥ १५॥ व्याख्या-श्रीश्रेणिकेति । हे भव्याः ! श्रीश्रेणिकनृपवद् बहवो जीवा जिनाः-तीर्थङ्करा भवेयुः । केन ? जिनपभक्तिभरण-जिनपतिसेवासमूहेन । उपलक्षणत्वात् विंशतिस्थानकासेवनेनापि । के इव ? धातुभेदाः-उपलभेदा इव । यथा धातुभेदा अचिरात्-तत्कालं चामीकरत्वं भव(ज)न्ते-प्राप्नुवन्ति । भूङ प्राप्तौ सौत्रो धातुः । कथंभूता धातु० ? सचूर्णपूर्णविभवेन भृता-मिश्रिताः-एकीकृताः, सतां-सिद्धानां यत् चूर्ण तस्य यो विभवः-शक्तिः तेनेति । यथा कालिका(चा)र्येण गर्दभिल्लोच्छेदार्थ समानीयमानशाकिराजकटके पथि क्षीणशम्बले वासचूर्णेन मृत्तिकेष्टकानीमाडकः स्वर्णमयः कृत इति ॥ ___ अथ श्रीश्रेणिकः क्षायिकसम्यक्त्वधारी नित्यं स्वर्णमययवमालिकया प्रतिमां पूजयति स । यतो मेतार्यमुनिना कलादगृहगतेन गलितजवमालिकक्रौञ्चोपरि कृपाश्रितेन स्वर्णकारकृतोपस१ एतत्स्थाने प्रतिभातीयं गाथा
गाहा हुई अणाहा, गाहासग्गेण पंडियग्गाहा । गाहामइओगाहा नरिंद! रंडाण आवहे गाहा ॥ [गाथा जाताऽनाथा गाथासर्गेण पण्डितप्राया।
अगाधमत्यवगाह्या नरेन्द्र ! रण्डाभ्य आयाति गाथा ॥] २ 'मुखान्तः' इति क-पाठः। ३ अपानम्। ४ कलादा-सुवर्णकारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org