________________
श्रीजैनधर्मवरस्तोत्रम् इति प्रश्ने । दक्षस्य-निपुणस्य नरस्य कर्णिकायाः-कुट्टिन्याः तत्-प्रसिद्ध नटविटसेवितं पदंस्थानं किमु सुखाय (सम्भवि-) सम्भाव्यते ? अपि तु नेति । यतः___“द्यूतं च मांसं च सुरा च वेश्या, पापर्द्धिचौरीपरदारसेवाः।
एतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं व्रज(नय)न्ति ॥१॥"-उपजातिः ___ अथवा दक्षस्य-निपुणभ्रमरस्य कर्णिकायाः-कमलकोशस्य पदं तत्रैव स्थिरवास्तव्यत्वेन सुखाय न सम्भवि । यतः
"रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे
___ हा हेन्त हन्त नलिनी गज उजहार ॥ १॥"-वसन्त० अथवा दक्षस्य-जीवपुद्गलस्वभावज्ञस्य कर्णिकायाः-कर्णभूषणस्य पदं सुखाय न, विद्वत्त्वहेतुत्वात् । अथवैवं दक्षस्य नरस्य दक्षस्य-द्रुमस्य वा कर्णिकायाः-हस्तिहस्ताग्रस्य पदं स्थानं न सुखायेति । यतो हस्तितो हस्तसहस्रं दूरतः स्थेयम् । यतः (चाणक्यनीतौ)
"शकटं पञ्चहस्तेन, दशहस्तेन वाजिनम् ।
गर्ज हस्तसहस्रेण, देशत्यागेन दुर्जनम् ॥ १॥"-अनु० वृक्षोऽपि गजसङ्गाद् भ(भु)मत्वं यातीति । “कर्णिका कर्णभूषणे । बीजकोशे सरोजस्य करमध्याङ्गुलावपि । कुट्टिन्यां हस्तिहस्ताग्रे" इति हैमः (अनेका० का० ३, श्लो० ६२४-६२५)। "दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ । द्रुमे" इति हैमः (अनेका० का० २, श्लो० ५६७)। अत्र दृष्टान्तः-कालिदासो नित्यं वेश्यायां रमते । तस्या मुखं ताम्बूलरक्तं वीक्ष्य (तेन) प्रोक्ता गाथा
"जीवी सासा हत्थे सासो करेइ गयणअब्भासो।
अहवा वली(लि)ओ न वली(लि)ओ मुहवन्नं कवण सइहल्ली! ॥१॥"-आर्या वेश्यया प्रोक्तम्-हे हला! गृह्यतां हन्यतामयम् । तेनोक्तम्-कोऽपराधः? । तयोक्तम्-गाथामिमां भोजाग्रे श्रावयित्वा लक्षद्रव्यं लास्यामि । कविनोक्तम्-नित्यं नवीनां कृत्वा तुभ्यमर्पया(यिष्या)मि । मां निजापवरके जीवन्तं रक्ष । नित्यं लक्षां लाहि । तयोक्तम्-एवमस्तु । सा तथैव करोति । कतिचिद् दिनानि नीत्वा कविना तस्यैका गाथा दत्ता । यतः
, 'मूलतः कमलिनी' इति सुभाषितरत्नभाण्डागारे (पृ० २३३)। २ छाया
जीवे श्वासः हस्तयोः स-आसः करोति गमनाभ्यासः ।
अथवा वलितो (जगतः)न वलितो मुखवर्णः कथं सखे !॥ ३ लक्षशब्दः स्त्रीक्लीबलिङ्ग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org