________________
श्रीभावप्रभसूरिकृतम्
अथ जिनान् मुक्त्वा वनानि भजति तदुपरि दृष्टान्तमाह
भरतचत्रिपुत्र मरीचिर्दीक्षां पालयितुमसमर्थः । ततस्त्यक्तजैनवेषः त्रिदण्डी क्षुरमुण्डः शिखाधारी शिरसि धृतमयूरबर्हच्छत्रः कृतकषायवस्त्रः सोपानत् स्थूलप्राणातिपातविरतिर्वृषभजिनेन सह विजहार । जनो विसदृशं वेषं तस्य दृष्ट्वा धर्मं पप्रच्छ तदा शुद्धं धर्ममुदित्वा प्रभुपार्श्वे मोचयति । तस्य एकदा रोगोत्पत्तिः परं न केनापि साधुना तस्य सेवा कृता । गते रोगे चिन्तितं तेन – यदि कोऽपि शिष्यो मिलति तदा वरम् । एकदा कपिलनामा राजपुत्रो दूरभव्यः समवसरणमाजगाम । ऋषभस्वामिना प्रोक्तो धर्मः कपिलाय नारुचत् यथा सूर्यो - दयो घूकाय सुखाय न स्यात् । ततो निर्गत्य यतिभ्यो विलक्षणवेषं मरीचिं लक्षयित्वा धर्मान्तरशुश्रूषया स राजसूर्धर्मं तं पप्रच्छ । ततो मरीचिरूचे - अत्र धर्मो नास्ति, चेद् धर्मेच्छुः तर्हि भगवत्समीपं गच्छ । ततः पुनरागत्य प्रभुमुखाद् धर्मस्तथैव तेन श्रुतः परं चक्रवाकाय चन्द्र इव तस्मै स धर्मो नारुचत् । भूयो मरीचिं समेत्य सोऽवदत्- किं भवतः कीदृशोऽपि धर्मो नास्ति ? किं धर्मोज्झितं व्रतं स्यात् । इति श्रुत्वा मरीचिरचिन्तयत्- कोऽप्यहो मम सदृशोऽयम्, सम्योगविदभूत् मम निष्प्रतिचारकस्य प्रतिचार एष भविष्यति इति । तदा मरीचिना प्रोक्तम्-अत्रापि धर्मोऽस्ति तत्रापि धर्मोऽस्ति, "केविला इहापि धम्मं" इत्यागमवचनात् । तेन वचसा सागरकोटा कोटीभवभ्रमणं समुपार्जितम् । ततः कपिलो दीक्षितः । ततः प्रभृति जनः परिव्राजकतां भेजे । कपिलदर्शनं जातम् । इति कपिलकथानकं समाप्तं पद्मानन्दे । इति त्रयोदशवृत्तस्यार्थः ॥ १३ ॥
"
सूत्रम् —
SA
Jain Education International
उर्दू 3
हे भव्य ! महितं कथितं कुदेवसम्पूजनं सुमतिनाऽत्र गरोपमानम् । दुःखाप्तिहेतुरतुलं किमु तत् सुखाय
दक्षस्य सम्भवि पदं ननु कर्णिकायाः ? ॥ १४ ॥
व्याख्या - अत्र - अस्मिन् लोके 'सुमतिना' सुष्ठु - शोभमाना मतिः - ज्ञानं यस्य स तेन सुज्ञानयुक्त पुरुषेण कुदेवसम्पूजनं - हरिहरादीनां सम्पूजनं हेयं त्यजनीयं कथितं - उक्तम् । किंविशिष्टं कुदेव० ? अहितं-अनिष्टकारकम् । अत एव पुनः किं० कु० ? गरोपमानं - विषसमानम् । पुनः किं० कु० १ अतुलं - अमेयम् । दुःखाप्तिहेतुः - दुःखाप्तिकारणम् । हेतुशब्द आविष्टलिङ्गः । ननु
१ कपिल ! इहापि धर्मः । २ 'इत्थंपि इहयंपि' इति पाठः सुबोधिकादिषु ।
५९
For Private & Personal Use Only
www.jainelibrary.org