________________
श्रीजैनधर्मवरस्तोत्रम्
क्रूरस्वभावे ! करुणाविहीने!, कठोरवाक्ये! कृपणा धवेऽपि
अलक्ष्मि ! क्रोधमुखी विमूढे !, कुरूद्यमं गोमयमानय द्राक् || ३ || -उपजातिः इति निरुत्तरीकृता हरिभर्त्रा । कोऽपि जैनमुनिः पृष्टः । तेन तस्य भार्याया अधर्मकारिण्याः पूर्वभवः कथितः । ततोऽधर्मस्य फलं ज्ञात्वा जैनधर्मिणौ जातौ । तावपि क्रमेण जिनधर्मप्रसादात् गोमतीहरिभट्ट सुखिनौ बभूवतुरिति ॥
1
५८
अथो मनोरमा भानुश्च दम्पती अखण्डश्रावकधर्मं प्रपाल्य सुखसमाधिना परमेष्ठिध्यानेन मृत्वा सुधर्मदेवलोके द्वौ देवौ जातौ । ततश्युत्वा ' पूर्वमहाविदेहे' स्त्रीभर्तारौ भूत्वा यौवनावस्थायामेव दीक्षां लात्वा मुक्तिं गमिष्यतः । इति मनोरमा भानुकथा सम्पूर्णा । इति द्वादशस्य वृत्तस्यार्थः सम्पूर्णः ॥ १२ ॥
सूत्रम्
34 ॐ आई
अर्हन्त एव जगदीश्वरतां श्रयन्तः सर्वातिशायिसुखदा नितरां निषेव्याः । हित्वाऽत्र तान् भजति मुक्तिकृते मुधाऽधी
माणि विपिनानि न किं हि मानी ? ॥ १३ ॥
व्याख्या-भव्यैः अर्हन्त एव नितराम् - अतिशयेन निषेव्याः - सेवनीयाः । कथंभूता अर्हन्तः ? जगदीश्वरतां श्रयन्तः - त्रिभुवनाधिपत्यं दधतः । पुनः कथं ० अर्हन्तः ? सर्वेभ्यः ( अतिशायि - ) उत्कृष्टं सुखं ददतीति सर्वातिशायिसुखदाः । हि इत्यवधारणे । ( अत्र - अस्मिन् जगति ) मानी मानः - गर्वः चित्तोन्नतिः सोऽस्यास्तीति मानी - मानयुक्तो नरः मुक्तिकृते - मोक्षकार्याय किं विपिनानि वनानि सुधा - वृथा न भजति ? - न सेवते ? अपि तु सेवते । वनमध्ये तापसो भवतीत्यर्थः। किं कृत्वा ? तान्–अर्हतः हित्वा त्यक्त्वा । कथं मानी ? अधी:-निर्बुद्धिः । कथंभूतानि विपिनानि ? 'नीलडमाणि' नीला दुमा वृक्षा येषु तानि इति । तीर्थङ्करा ( एव ) अतिशायि - सुखदाः । यत उक्तम्
Jain Education International
"क पर्वपीयूषकरः क्व तारकाः
क वा स्वयम्भूरमणः क गोष्पदम् १ |
वियेन्मणिः क क वैयोमणिः स वा
कशं प्रभूपासनजं क राज्यजम् १ ॥ १ ॥ " - वंशस्थम्
राज्यदानावसरे भरतेन प्रोक्तं प्रभुं प्रतीति पद्मानन्दे ॥
१ पौर्णमीयचन्द्रः । २ सूर्यः ।
३ खद्योतः ।
For Private & Personal Use Only
www.jainelibrary.org