________________
५७
श्रीभावप्रभसूरिकृतम् पण्डित ! स्य सदा पापं, संसारपरिवर्धनम् । जिनेन्द्रवचने यस्य, तस्य जन्म निरर्थकम् ॥ ८॥-अनु० येन प्लष्टमनोभवेन सहसा ध्वस्तो भवस्य पँचः
पीतो येन कठोरकर्मकलभः सिंहत्वमाविभ्रता । पाकं येन निराकृतं भवशतोपात्तं भजे तं जिनं हीनं पण्डित एव पूरणपटुर्नान्योऽत्र जाल्मो भवेत् ॥ ९॥-शार्दूल०
शैब्दस्य तुरीये भागे, जव्यान्ते रोजवर्जिते ।
वाजं यत्नेन दातव्यं, कैविभ्यो वैज्रमिश्रितम् ॥ १० ॥-अनु० इत्येवं मनोरमावचनानि ॥
तौ दम्पती नित्यं गुरोर्मुखाद् व्याख्यानं शृण्वन्तौ देवपूजां कुर्वन्तौ दानं ददतौ यथाशक्ति प्रत्याख्यानं विदधतौ कालं गमयतः। श्वश्रूश्वशुरयोरतीव वाल्लभ्यभाजनं तौ जातौ । क्रमेण मातापितरौ दिवं गतौ । गृहस्वामी भानुर्जातः॥
इतश्च पूर्वप्रातिवेश्मिका वनी नाम्नाऽधार्मिकी सा मृत्वाऽत्रैव नगरे भानोरेव प्रातिश्मिकहरिनाम्नो भट्टस्य गोमती नाम्ना भार्या जाताऽस्ति । यदा परिणीय गृहमानीताऽस्ति तत्प्रभृति गृहलक्ष्मीः सर्वो नष्टा । कष्टेन गृहनिर्वाहो वर्तते । तया गोमत्या तयोः परस्परं प्रेमालापं श्रुत्वा स्वपतिहरिः प्रोक्तः-शृणु, कया रीत्या भानुः स्वस्त्री जागरयतीत्यादिकं पश्य । तदा हरिः प्राह-क सा? क त्वम् ? । यतः शृणु-सा कीदृशी?
क रनकान्तिः क च काचकान्तिः, क देववाल्लिः क च मत्तशाखा । क कामधेनुः क च सर्वभक्षा, पुण्येन याऽऽभाति गृहाङ्गणेऽसौ ॥१॥-उपजातिः दानेन लक्ष्मीर्वचसा च वाणी, शीलेन शी(सी)ता गुणरत्नखानिः ।
रूपेण देवेन्द्रसुतास्ति सा तु, भाग्येन पूर्वोचरितेन लब्धा ॥२॥ इन्द्रवत्रा अथ त्वं यादृश्यसि तादृशीं त्वां जागरयामि । शृणु
रे रे प्रिये! पक्कपटोलनेत्रे!, लम्बस्तनी(ने!) निर्जितकाकनादे।। यत्पादनिक्षेपगलद्गृहश्री-रुत्तिष्ठ दुष्टे! दलनाय गच्छ ॥ १॥-इन्द्रवज्रा रे घोरनिद्रे ! कलहप्रसक्ते !, रे प्रेतरूपे! नितरां कुरूपे।। रे दुर्भगे! भाग्यविवर्जिते! रे, उत्तिष्ठ दुष्टे ! सलिलाय गच्छ ॥२॥-इन्द्रवत्रा
१ घातय । २ उद्यम कुरु। ३ क्षिप। ४-६ प्रचमध्ये पंप्रक्षेपणात् प्रपंचः, एवं पीतः पीडितः, पाकं पातकं इति ज्ञेयम् । ७ दिनस्य । ८ चतुर्थप्रहरे। ९ चन्द्ररहिते अमावासीदिने। १० अन्नम्। ११ यतिभ्यः। १२ घृतयुक्तम् । १३ धत्तुरवृक्षशाखा। १४ अजा।
. जेन० स्तो०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org