SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभवरिकृतम् ४९ भूत्वा 'राजगृहे' श्रेणिकधारिणीपुत्रो नन्दीषेणनामा जज्ञे । क्रमेण दीक्षितो वीरान्तिके । दशपूर्वधारी कन्दर्पाभिभूतो निकाचितभोगकर्मत्वाद् वेश्यागृहे द्वादश वर्षाणि स्थितः । प्रतिदिनं दश दश नरान् प्रतिबोधयन् वीरान्ते दीक्षां ग्राहयन् कालं गमयति स्म । द्वादशवर्षान्ते पुनर्दीक्षां गृहीत्वा मुक्तिमगमत्, महानिशीथवचनात् । अन्यत्र देवो दृश्यते । इति पात्रापा - त्रदानफलम् । ॥ इति एकादशवृत्तार्थः ॥ ११ ॥ ॐ 弦 32 अथ पात्रदानप्रसङ्गात् सप्तक्षेत्रीमाह - तत्र प्रथमं जिनबिम्बं चाश्रित्य सूत्रम् — तीर्थङ्कराः सकलदोषविमुक्तदेहाः स्नेहान्मिथो गलितसिंहगजादिवैराः । सेत्पूजिता विदधतीह हितं न किं किं चिन्त्यो न हन्त महतां यदि वा प्रभावः ॥ १२ ॥ व्याख्या - इह लोके तीर्थङ्कराः सत् - निरन्तरं पूजिताः अथवा सम्यक् प्रकारेण पूजिताः सन्तः किं किं हितं वाञ्छितं न विदधति ? अपि तु सर्व वाञ्छितं कुर्वन्त्येव, भक्तानामिति शेषः । कथंभूताः तीर्थङ्कराः । ‘'सकलेति' सकलैः समस्तैः दोषैः - अन्तरायादिभिः दोषैर्विमुक्तं देहं येषां ते । पुनः कथंभूताः तीर्थङ्कराः ? स्नेहात् मिथः - परस्परं गलितं - नष्टं सिंहगजादीनां वैरं येभ्यस्ते । यदि वा हन्तेति निश्चयेन । महतां -गरिष्ठानां प्रभावः अचिन्त्यः - अचिन्तनीयः । यतः "मैत्री प्रमोदां करुणामुदासतां प्रभुस्तथाऽपुष्यदिमां सभां यथा । द्वेषो विषादोऽकृपता स्वकान्यता तेषां द्विषो मीनमिया प्रपेदिरे ॥ १ ॥ " - इन्द्रवंशा " (इति) पद्मानन्दे | " सारङ्गी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं १ 'सत् पूजिता' इत्यपि पदच्छेदः समीचीनः । नेन० तो ० ७ Jain Education International Z4 חיות मार्जारी हंसबालं प्रणयपरिवशात् केकिकान्ता भुजङ्गम् । वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति श्रित्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥ १ ॥" - खग्धरा For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy