________________
५
.
श्रीजैनधर्मवरस्तोत्रम् छमस्थावस्थायामपि, यतः
"अभिन्नभोक्ता भृशमोतुना च
शुना च भुतेऽतिथिसंविभागे । एकत्र काकश्चटकेन साक
माकण्ठमाहारमिहाजहार ॥१॥"-उपजातिः (इति) पद्मानन्दे।
"किं खर्गेण सदा द्रुमाश्मपशुतो यत्रार्थलाभस्पृहा ।
किं वा भोगिपुरेण यत्र सततं वाताशनैः स्थीयते । किं वा मुक्तिपुरा न यत्र वृषभस्वामी समाराध्यते
मर्त्यत्वं प्रभुरप्ययं भवतु नः सर्वैस्तदेतीहितम् ॥१॥"-शार्दूल. इति पद्मानन्दकाव्यैकादशे सर्गे। तीर्थङ्कराः किं किं हितं न विदधति इति तदुपरि दृष्टान्तमाह-भगवान् मुनिसुव्रतो जिनः केवलज्ञानेन भव्यान् प्रतिबोधयन् निशि 'प्रतिष्ठान'नाम्नि पुरेऽन्यदा समवासार्षीत् । तदा 'भृगुकच्छे' पुरे प्रभाते पूर्वभवमित्रमश्वं हन्यमानं ज्ञात्वा तस्यां निशायामवाचलत् । अन्तराले 'सिद्धि'पुरे रात्रिमध्यं क्षणं प्रभुर्विशश्राम । ततो रात्रिचारेण पष्टिं योजनान्यतिलच्य च 'भृगुकच्छे 'कोरट'नाम्नि वने प्रभाते देवकृतसमवसरणं प्रभुरलञ्चकार । तत्र तुरङ्गमारुह्य जितशत्रुनृप आगतः । प्रभुं नत्वा देशनां शुश्राव । तदनन्तरं जिनमपृच्छत्-अत्र समवसरणे हे भगवन् ! के के जीवास्त्वत्कथितं धर्म प्रापुः । प्रभुणोक्तम्-एकस्तवाश्वः, परं नापरे । राजाऽऽह-तत् किम् ? जिनेनोक्तम्-शृणु । तथाहि__'चम्पा'यां सुरश्रेष्ठनामाऽहं धराधवोऽभूवम् । तत्र घोटकजीवो मतिसागरनामा मन्मित्रं बभूव । परं स च मायी मिथ्यात्वी कालान्तरे मृत्वा भवं भ्रान्त्वा 'पद्मिनीखण्ड पत्तने सागरदत्ताख्यो वणिग् मिथ्यात्वी बभूव । तत्र जिनधर्मनाम्ना श्रावकेण साध गाढं प्रीतिस्तस्य जाता । एकदा श्रावकेणायं मुनिपावं नीयते स्म । मुनिना प्रोक्तम्
___ "मृण्मयं हैमनं रत्न-मयं वा बिम्बमार्हतम् ।।
यः कारयेत् कुकर्माणि, स मनाति भवान्तरे ॥ १॥"-अनु० इति श्रुत्वा सागरदत्तेन जैनं सौवर्ण विम्ब कारापित, साधुभिः प्रतिष्ठितम् । पूर्व मिथ्यातित्वात् नगरबहिः शिवायतनं कृतमस्ति । तत्र शिवायतने पूजकैघृतकुम्भेभ्य आकृष्यमाणेभ्यश्चर्यमाना उपदेहिका आलोक्य स वस्त्रेणापानयत् । तं विलोक्य भृशं ते ताः मर्दयन्ति स । रे! त्वं
१ वातं-पवनं अश्नन्ति-अदन्तीति-वाताशनाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org