________________
४८.
श्रीजैनधर्मवरस्तोत्रम् सन्मुखमागच्छते मासक्षपणकाय साध क्षुधितोऽपि ददौ । अतो दानप्रभावात् सम्पूर्णचन्द्रस्वामसूचितो 'बेनातटे' राजा बभूव । कश्चिञ्जटिल एतत्स्वमसूचितोऽपि निष्पुण्यत्वात् घृतगुडमिश्रं मण्डकमेव लभते स, नान्यत् ॥
॥ इति दशमवृत्तस्यार्थः सम्पूर्णः ॥ १० ॥
सूत्रम्
जैनेन यन्नरकहेतुरपात्रमुक्तं ___ मुक्तं मुधा तदपरेण कथं श्रितं ही? । - मद्यादि यत् परिहृतं सुधियाऽथ यज्ञे
पीतं न किं तदपि दुर्धरवाडवेन ? ॥ ११ ॥ व्याख्या-जैनेन-जैनगीतार्थेन यत् अपात्रं-कुपात्रं नरकहेतुः उक्तम् , अत एव मुक्तं-त्यक्तम् । ही इति खेदे । अपरेण अन्यतीर्थिना नरेण तद् अपात्रं मुधा-निरर्थकम् , कथं संभावनायाम् , श्रितं-आश्रितम् । अत्र दृष्टान्तमाह-सुधिया-पण्डितजनेन यत् मद्यादि-मदिरादिकं परिहतंत्यक्तम् , अथान्वादेशे, दुर्धरवाडवेन-उद्धतविप्रेण यज्ञे तदपि मद्यादिकं न पीतम् ? अपि तु पीतम् । उन्मत्ता विप्रा वदन्ति
"अजं हत्वा सुरां पीत्वा, कृत्वा च पलभक्षणम् ।
हस्तिना ताड्यमानोऽपि, न गच्छजिनमन्दिरे ॥१॥" अत्र जैन आह
"अजं हत्वा सुरां पीत्वा, कृत्वा च पलभक्षणम् ।
ब्राह्मणोऽपि गजोद्धान्तो, न प्रवेश्यो जिनालये ॥ १॥" इति । मूढविप्रा अर्थ न जानन्ति, यतः जिनस्य-कृष्णस्य मन्दिरे न गच्छेत् , कृष्णमूर्तेराशातनत्वात् । अतोऽर्हचैत्ये तु सर्वथा प्रवेष्टुमयोग्य ईदृक् । जिष्णुनामालिषु "मार्जजिनौ कुमो. दकः" इति हैमः (अभि० का० २, श्लो० १३०)।
अत्रापात्रदाने दृष्टान्तः. मुखप्रियनाम्ना विप्रेण दासीसुतभीमनामा सूदो रन्धनाथ रक्षितः । भीमेन प्रोक्तम्सर्वेषु विप्रेषु भुक्तेषु सत्सु यत् शेषं अन्नादिकं उद्गरितं तत् सर्व मदीयम् । तेनोक्तम्-एवमस्तु । नित्यशो मुखप्रियेण सहस्रसंख्या विप्राः पोषिताः । अथ भीमेन तेनान्नादिकेन जैनसाधवः पोषिताः । ततो मृत्वा मुखप्रियः भवभ्रमणं कृत्वा सेचनकनामा गजो जातः । भीमस्तु सुरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org