________________
श्रीभावप्रभसूरिकृतम् गोभद्रो दीक्षा लात्वा देवो जज्ञे । अवधिना ज्ञातभवत्रयसम्बन्धिपुत्रत्वेन स्नेहेन भोगसामग्री पूरिता । क्रमेण शालिभद्रो धन्यकश्च दीक्षां गृहीत्वा 'वैभार गिरौ अनशनमादाय 'सर्वार्थसिद्ध' गतौ 'महाविदेहे' मुक्तिं गमिष्यतः । इति सम्बन्धः संक्षेपतः । इत्येवं सुपात्रदानतो बहवः सम्बन्धा वाच्याः । सुपात्रदानफलम् । यतः--
"किमप्यतिथिदानस्य, माहात्म्यं सुमहत्तमम् ।
यत्रानमात्रतः खर्गा-पवर्गसुखसङ्गमः ॥१॥"-अनु० इति पद्मानन्दे । अतिथिलक्षणमाह
""तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयात् , शेषमभ्यागतं विदुः॥१॥"-अनु०
॥ इति नवमवृत्तस्यार्थः सम्पूर्णः ॥९॥
सूत्रम्
दानं ददौ सुमुनये क्षुधितोऽपि योऽतो
निःखोऽपि भूपतिरभूदिह मूलदेवः । यत् कीचकः श्रयति सार्थकतां नितान्त
मन्तर्गतस्य मरुतः स किलानुभावः ॥ १०॥ व्याख्या-यः क्षुधितोऽपि सुमुनये दानं ददौ इह-लोके अतः-दानपुण्यात् स मूलदेव: निःस्खोऽपि-निर्धनोऽपि भूपतिः अभूत-बभूव । दृष्टान्तमाह-यत् कारणात् कीचकः नितान्तंअतिशयेन सार्थकतां-यथार्थतास्वाभिधेयतां श्रयति । “खनन् वातात् स कीचकः" इति हैम(अभि० का० ४, श्लो० २१९) वचनाद् वायुना सच्छिद्रो वंशः शब्दं करोति स कीचक उच्यते । किलेति सत्ये । सः अनुभावः-प्रभावः अन्तर्गतस्य मरुतः-वातस्य वर्तते इति ॥
अत्र सम्बन्धः
कश्चित् मूलदेवाभिधो राजपुत्रः द्यूतव्यसनित्वात् स्थानभ्रष्टः पर्यटन् कस्याश्चित् नगर्या गतः। परं मूलदेवः सकलकलापात्रम् । तेन तत्र तद्गुणरञ्जितवेश्या तत्सङ्गं न त्यजति । परस्परं भृशं प्रीतिजोता । ततो निद्धेनत्वात् तत्कुट्टिन्याऽचलवणिजा सह कृतोपायेन निष्कासितो मूलदेवोऽटवीमुल्लङ्घय कमिंश्चिद् ग्रामे भिक्षावृत्त्या कुल्माषान् गृहीत्वा यावद् ग्रामद्वारमागच्छत् तावत्
भयं श्लोको योगशास्त्रस्वोपज्ञवृत्ति(प० ५४)-धर्मसङ्ग्रह(प०९)-श्राद्धप्रतिक्रमणसूत्रवृत्ति(प० १७४)-श्राद्धगुणविवरण(२०४५)प्रमुखग्रन्थेषु दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org