________________
४१
श्रीजैनधर्मवरस्तोत्रम्
तदा जमडूकेन रायां (य 1 ) साधार इति बिरुदं लब्धम् । तदाप्रभृति महाजनेऽपि रायांसावारविरुदवान् कथ्यते । चतुरशीतिज्ञातिषु जगडूकरूपकाणि भट्टादिभिः सर्वत्र पठ्यन्ते । एवं जगर्जगदुद्धारको जातः ॥
एकदा दुष्टो दुष्कालाभिधो व्यन्तरो जगडूसमीपं छलनाय समेतः । स च कीदृग् ? मलिनवेशो वर्वरकेशः सूर्पकर्णः कृष्णवर्णो बीभत्सरूपः पतितनेत्रकूपो बुभुक्षया पृष्ठलग्नोदरः सर्वेषां भयङ्करः प्राह जगडूकम् - भो भो जगडूः ! द्वादश वर्षाणि जातानि क्षुधातुरोऽहम् । तेनोक्तम् — भुङ्ग यथेष्टम् | दुष्कालेनोक्तम् - यदा धातोऽस्मि तदा त्वहं जितः, अन्यथा मया त्वं जित इति पणबन्धः सौहलिनाऽप्यङ्गीकृतः । ततः स दुष्कालः प्रेतो रङ्कमण्डपाच्छादनकटं स्वक
चार्य भोज्यभाजनं तमेव कृत्वा निविष्टः प्रोवाच - अस्मिन्नन्नानि क्षिपता (यन्ता १) मिति । ततो 'भद्रेश्वरे' चतुः सहस्रमित महाजनगृहाणि सन्ति, सकलमहाजना आकारिताः । प्रोक्तो जगडूकेन पणबन्धः सः । अतो भो भो भ्रातरः ! अद्य कीदृशा भवन्तु यथा महाजनवचनं जयश्रियं वरति तथा कर्तव्यम् । ततः सर्वेऽपि महाजनाः केचन ताम्रकटाहैः केचन कण्डोलकैः केचन पृथुल पाटफलकैः केचन वस्त्रझोलकैः पक्कापकान्नानि लात्वा तत्र क्षिपन्ति । प्रेतोऽपि सर्वमाजहार | कणमपि न मुञ्चति स्म । स वदति स्म - भो जगडूः ! चोप्पडकं देहि - तदा घृततैलकुतुपाः प्रवाहिताः । यामं यावत् महाजनैः एहिरेयाहिरा क्रिया कृता । यामोर्ध्व स भक्षयन् किञ्चिदुद्गरितमन्नं दृष्ट्वा थक्कितोऽधुनासाविति विचार्य तैः समकालं स्थलीकृतोयं, दुर्धरा वाणिarti हाकी कह कोठाः । ततो दग्धोऽहं दग्धोऽहं वदन् पलायमानो जगडूकेन गाढं करेण धृतः । रे जगत्संहारकारक! अधुना क यासि ? कारागारे क्षिपाम्यहं त्वाम् । स ऊचे - मां मुञ्च, अद्य प्रभृत्यहं मनुष्यलोकं नागमिष्यामि । दक्षिणहस्तार्पणं कृत्वा मुक्तः स्वस्थानं गतः । यतः - સ્વર્ગથકી સંચર્યો, દેશ પુહતેા દુકાલહ
નિતુ નયર ઉન્નડઇ તિહારેં તું, વારહ પુહતી શ્રીમાલહુ. भन्ने यो (३) मासा, धारतो धीनी चाहुं
કઇ તા ફેડું ગ(ટા)મ, કઇ તેા જીવતા સાહું.
હું પાપી પડ્યો તું સાહજી મિક્લ્યા, બાલબંધ ગાઢા કર્યો. મેહિલ જગયા સાહા સાહલાતણા જે નાનું કાલ ખાર(તેર)પનરોત્તર।.”
१ तात्पर्यम् -
Jain Education International
स्वर्गात् सञ्चालितो देशं प्राप्तो दुष्कालः
नित्यं नगराण्युद्वासयति तदा तु व्याहरिका प्राप्ता श्रीमालस्य ।
भन्नेन करिष्याम्याकुलो धारयन् घृतस्य वाहिकाः ( यद्वा धारास्तु घृतस्य वाहयामि )
किंवा तु स्फेटयामि स्थानं किंवा तु जीवन्तं गृह्णामि ।
अहं पापी पतितस्त्वं साधुर्मिलितो वचनबन्धो गाढं कृतः
मुञ्च जगडूक! साधो ! सोहलतनय ! यत् नागमिष्यामि कालः त्रयोदशः पञ्चदशोत्तरः ।
For Private & Personal Use Only
www.jainelibrary.org