________________
श्रीभावप्रभमरिकृतम् इति ॥
साधवः साधर्मिकादयः सर्वेऽपि पोषिता जगडूकेन । ततः सर्वतः सुकालो जातः । गृहपृष्ठवाटके श्वेतार्क दृष्ट्वा सेवकः प्रोक्तम्-इतोऽधस्ताद् धनं गृह्यते । किं धनेन । माऽभूदस्य विनाश। वर्षाकाले जलेन समूलमुन्मूलितार्कात् प्रकटितं धनं सप्तक्षेत्रीसात् कृतं जगडूकेन । पुनरेकदा पोतचौरेण 'सिक्थमय्य इष्टिका आनीता रामस्येन क्रीताः । स्वभार्यया तु उपालब्धः, जैनानामेष व्यापारो निषिद्ध इति लोकापवादः। तेन दम्पत्योः परस्परं मुखानवलोकनं जातम् । शीतकाले हसन्त्यांता मदनेष्टिकाः क्षिप्ता उपरिष्टाज्वलितमदनाः स्वर्णमय्यो जाताः, गुरवे दर्शिताः, धर्ममार्गे व्ययीकारापिताः । इत्येवं जगडूकेन चतुर्विधसङ्घन सह 'शत्रुञ्जया दितीर्थानां यात्रा कृता, 'भद्रेश्वरे' चैत्यानि कारितानि । धर्मार्थ हट्टो मण्डितः, जैनागमानि लिखापितानि इत्यादीनि बहूनि धर्मकार्याणि चक्रिरे । इति जगडूकप्रबन्धः समाप्तः॥
कीर्तिदाने यथा 'श्रीशत्रुञ्जय'सङ्घपतितिलकं विभ्रत् समराहयो वणिजां वरः 'सिद्धाचल'मागच्छति तदा चारणकेन प्रोक्तम् । यतः
सातुं समरे। साह, मील सर्व साईटीया ।
નદી તે ગંગાપ્રવાહ, બીજા સર્વ વાહૂલીયા ૧ ” तसायश्वं ददौ इति सझेपतः।
अथ पुनः श्रीवस्तुपालः ससङ्घः श्री'शत्रुञ्जये' देवान् नत्वा अग्रतश्चलन् 'देवक पत्तचे ययौ । अत्रान्तरे सङ्घमध्ये सोमेश्वरपण्डितेन काव्यमुक्तं वस्तुपालं प्रति । यत:
"लक्ष्मि ! प्रेयसि ! केयमास्यशितिता वैकुण्ठ ! कुण्ठोऽसि नो
नो जानासि पितुर्विनाशमसमं सङ्घोत्थितैः पांशुभिः । माऽभीरु ! गभीर एष भविता भोधिश्चिरं नन्दतात्
सङ्केशो ललितापतिर्जिनपतिस्त्रात्राम्बुकुल्यां सृजन् ॥१॥"-शार्दूल. ततो वस्तुपालेन तस्य लक्षद्रव्यं दत्तम् ॥ पुनरेकदाऽर्बुदा'चले गतो विमलवसतिं वस्तुपालस्तत्र चारणेनोक्तम् । यतः
मदनमय्यः । २ तारपर्यम्
साधुस्तु समरः साधुः भन्ये सर्वे साधुकाः (लघुसाधकः)।
नदी तु गङ्गाप्रवाहः भन्ये सर्वे वाहकाः ॥ ३ मुखस्य श्यामता। हे कृष्ण ! ५ अस्माकम् । भविष्यति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org