________________
४१
श्रीभावप्रभरिकृतम् • तैर्धान्यैः प्रौढकोष्ठका भृताः । देशप्रदेशेषु सर्वत्र धान्यसश्चयान् कारयित्वा एते रङ्कनिमित्ता इति ताम्रपत्राणि लिखित्वा सर्वत्र धान्येषु क्षिप्तानि । ततः कियति काले गते विकराले दुष्काले पतिते खादतपिबता क्रिया नष्टा, भर्ना स्त्री मुक्ता, स्त्रिया भर्ता मुक्तः, शिशवोऽपि विक्रीता इत्यादि । सर्वत्र सीदनकालो जातः । तदा जगडूकेन सर्वत्र दानशाला मण्डापिताः । प्रचुराणि सस्यानि दीयेमानानि रङ्केभ्यः । भूपैर्धान्यार्थ जगडूको याचितः-सुवर्णमाणिक्यादिकं गृहाण, परं सीत्यं समर्पय । तेनोक्तम्-रङ्कसात्कृतं सर्व युष्माभिरपि तदादीयताम् , तेर्बुभुक्षावशतस्तथैव कृतम् । यतः
"अँट्ठ य मूढ(ड) सहस्स दिद्ध वीसल वडवीरह बार मूढि(ड) सहस्स दिद्ध सिंधूया रायहमीरह । गजणवइ सुलताण दिद्ध मूढि(ड) सहस्स एकवीसह मालवपति अढार प्रतापसीहराय सहस्स बत्तीसह । शत्रुजय रइवयगिरि दानशाला बारोत्तरी(रइ ?)
जगडूया साहा सोहलातणा पुण्यप्रसिद्ध राषी (तेर) पनरोत्तरइ ॥१॥"" १ खादत पिबत इति यस्यां क्रियायां सा खादतपिबता, तिङन्तस्य तिङन्तेन सह समासः।। २ 'दीयमानानि दीयमानानि' इति क-पाठः। ३ धान्यम् । ४ तात्पर्यम्
अष्ट च मूटकसहस्राणि दत्तानि वीसलाय वड़वीराय द्वादश मूटकसहस्राणि दत्तानि सैन्धवीयराजहम्मीराय । गर्जनपतये सुरत्राणाय दत्तानि मूटकसहस्राणि एकविंशतिः मालवपतये अष्टादश प्रतापसिंहाय राज्ञे सहस्राणि द्वात्रिंशत् । शत्रुञ्जयरैवतगिर्योर्दानशाला द्वादशोत्तरं (शतम्)
जगडूना साधुना सोहलतनयेन पुण्यप्रसिद्धी रक्षिता (प्रयोदशे) पञ्चदशोत्तरे ॥१॥ ५ सन्तुल्यतां श्रीसर्वानन्दसूरिरचितस्य जगडूचरितमहाकाव्यस्य षष्टसर्गस्य निम्नावतारितपयैः
"जगौ वीसलदेवाय, जगहूरिति पर्षदि। तन्मे पापं म्रियन्ते, चेजना दुर्भिक्षपीडिताः ॥ ८९॥ ददावष्ट सहस्राणि, स तस्सै कणमूटकान् । श्रीमालान्वयकोटीर-स्त्रिधा वीरत्वमाश्रितः ॥ १० ॥ स द्वादश सहस्राणि, प्रददौ कणमूटकान् । हम्मीरनामधेयाय, सिन्धुदेशमहीभुजे ॥ १२५॥ स ददौ गर्जनेशाय, मोजदीताय सत्वरम् । सद्धान्यमूटकानां च, सहस्राण्येकविंशतिम् ॥ १२६ ॥ अष्टादश सहस्राणि, स ददौ कणमूटकान् । भूपायावन्तिनाथाय, तदा मदनवर्मणे ॥ १२७॥ राज्ञे प्रतापसिंहाय, काशीनाथाय सोलभूः। द्वात्रिंशतं सहस्राणि, प्रददौ कणमूटकान् ॥ १२८ ॥ द्वादशाभ्यधिकं दान-शालाशतमुदारधीः ।
जगडूः सुकृताधारो, जगजीवातुरातनोत् ॥ १२९॥" जैन स्तो०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org