________________
श्रीभावप्रभमूरिकृतम् मुनिसङ्घट्टितः कथं दूनः ? इति भगवद्वचः श्रुत्वा स्थिरो दीक्षायां जातः । तदा मेघमुनिनामिग्रहो गृहीतः-नेत्रद्वयशुश्रूषां मुक्त्वा स्वागशुश्रूषां न करिष्यामीति । प्रान्तेऽनशनं कृत्वा 'विजय'विमानं गतः । 'महाविदेहे' मोक्षमवाप्स्यतीति ।।
इति मेधकुमारकथा । इति पञ्चमवृत्तस्वार्थः सम्पूर्णः ॥५॥
सूत्रम्
मांसं समर्घमधुनेति वचो निशम्य
तस्याप्त्युपायमभयेन विधाय चोक्ताः। कुर्वन्ति तां न हि ययाऽहह राजलोका
जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥६॥ व्याख्या-मांसमिति । वा समुच्चये, ननु वितर्के निश्चये वा, अहह इति खेदे । अभयेनश्रेणिकपुत्रेण राजलोका:-क्षत्रिया उक्ता-निरुत्तरीकृताः । किं कृत्वा ? इति वचो निशम्यश्रुत्वा । इतीति किं ? अधुना मांसं समर्घ-सुलभ-अल्पमूल्यं च-पुनः तस्य मांसस्य आप्तेः-प्राप्तेः उपाय-उद्यम विधाय-कृत्वा । कथं प्रोक्ताः तदाह-[अहह इति खेदे] भवन्तो राजलोका यया गिरा-वाण्या जल्पन्ति तां गिरं न हि कुर्वन्ति । कथंभूताः राजलोकाः ? पक्षिणः अपिपक्षयुक्ता अपि । पक्षः साध्यः पक्षग्रहो वा ॥
"पक्षस्तु, मासार्धे ग्रहसाध्ययोः । चुल्लीरन्ध्र बि(ब)ले पार्श्वे, सख्यौ (वर्गे) केशात्परश्वये ।
पिच्छे विरोधे देहाङ्गे, सहाये राजकुञ्जरे ॥" इति हैमानेकार्थः (श्लो० ५६८-५६९)। पक्षः अस्ति येषां ते पक्षिणः, पक्षवचनयुक्ताः। यतः प्रतिज्ञाहेतु दृष्टान्तोनयनिर्गमनानि इति पक्षवचनम् । प्रतिज्ञा-पर्वतोऽयं वह्निमान् १ । धूमवत्त्वात् २ । यो यो धूमवान् स स वह्निमान् यथा महानस इति ३ । यथा धूमवांश्चायमिति तथा चायमिति वा ४ । पक्षे साध्योपसंहारो निगमनं यथा-तसादग्निमानिति तस्मात् तथेति वा ५ । इति पश्चावयवं वाक्यं प्रसिद्धम् । यथा सत्तार्किकाः पश्चावयववाक्यसाधनेऽलीका न भवन्ति अपि-पुनः भवन्तः क्षत्रियाः पक्षिणोऽपि मांसं समर्पमित्यङ्गीकृतवचना अपि कूटभाषिणो भवन्ति । अर्थद्वारेण स्पष्टयति-'राजगृहे' सभास्थितेन श्रेणिकनृपेणोक्तम्-सम्प्रति नगरमध्ये किं वस्तु सुलभमस्ति ? । तत्र क्षत्रियाः प्रोचुः-मांसं समघमस्ति । अभयकुमारेण चिन्तितम्-एते निर्दयाः, एतेषां परीक्षां करिष्यामि । ततो रात्रौ सर्वक्षत्रियगृहे पृथक् पृथग् गत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org