________________
श्रीजैनधर्मवरस्तोत्रम् अभय एवमकथयत्-भो क्षत्रियाः ! शृणुत । राजपुत्रशरीरे महाव्याधिरुत्पन्नोऽस्ति, वैद्यैरुक्तम्यदि मनुष्यसत्ककालेयमांसटङ्कद्वयं दीयते, तदा स जीवति, नान्यथा । ततो यूयं तदीयग्रासजीविन एतावदपि न करिष्यथ ? । तत एकेनोक्तम्-दीनारसहस्रं गृहाण, परं मां मुञ्च,' अन्यत्र गच्छ । अभयेन गृहीतम् । एवं सकलां रात्रिं परिभ्रम्य तैर्दत्ता मिलिता दीनारलक्षाः । प्रभाते तद्धनराशीकृतं दर्शितं क्षत्रियाणाम्-भो यूयमेवमकथयत गतदिवसे-यन्मांसं सुलभ, तदद्य एतावता द्रव्येणापि टङ्कद्वयप्रमाणं मांसं मया न प्राप्तम् । ततो लजिता अभयेन हकिता मांसभक्षणनियम ग्राहिता इति युक्तिः सम्पूर्णा । षष्ठवृत्तस्यार्थः सम्पूर्णः॥६॥
अथानुकम्पादिकदानमाश्रित्याहसूत्रम्
सदृष्टिपूर्वककृतांहतियुग्ममस्तु
हे भव्य! भव्यतरमन्यदपि प्रधानम् । जन्तून् करोति सुखिनस्तपतापततान्
प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ ७ ॥ - अत्र सूचीकटाहन्यायेन संक्षेपत्वादनुकम्पादिदानं सुपात्रदानात् प्रथम कथयति-व्याख्याहे भव्य! सदृष्टिपूर्वककृतांहतियुग्मं अस्तु-दूरे तिष्ठतु । सम्यक्त्वपूर्वककृतं अंहत्याः अभयसुपात्रदानयोयुग्मम् । “अपवर्जनमंहतिः" इति हैमः (अभि० का० ३०, श्लो० ५१)। कथंभूत सदृष्टि० ? भव्यतरं-अतीव शुभं, मोक्षप्रदायकत्वात् । हे भव्य! अन्यदपि-अनुकम्पादिदानमपि जन्तून् सुखिनः-देवादिसुखयुक्तान् करोति । कथंभूतमन्यद् दानम् ? प्रधानं संसारसुखापेक्षया । यतः पद्मानन्दकाव्ये त्रयोदशे सर्गे
___ "कश्चनापि क्षुदलान्तं, प्राप्तमन्नोदकैर्मुदा ।
यस्तर्पयति सर्पन्ति, स्वभॊगास्तमपि ध्रुवम् ॥ १॥" - दृष्टान्तेन दृढयति । पद्मसरसोऽनिलो-वायुरपि तपतापतप्तान्-ग्रीष्मकालस्य तापेन तप्तानपीडितान् , विशेषणशक्त्या विशेष्यः प्रतीयते, पान्थजनान् प्रीणाति-प्रीतिमुत्पादयति । कथंभूतो वायुः ? सरस:-सजलः । यतो मानससरोजलं सेवितं सत् तृट्तापमलपरिश्रमादिसर्व स्फेटयति, तथा पूर्वदानद्वयं सकलसंसारदुःखापहारि इति । अन्यत् तु भोगाय भवति । अत्र गाथाः
. . . मनुजहृदयमांसटङ्कद्वयम् । २ गृहमागतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org