________________
३६
श्रीजैनधर्मवरस्तोत्रम् द्विलक्षामितो लवणोद इति परं स निजधिया ज्ञायते नेति । वा-अथवा को विः-गरुडादिः पक्षी स्वधिया अम्बुराशेः तीर्णतां-कथयति ? अपि तु न ॥ . अत्र मेघकुमारकथालेशः
'राजगृहे' श्रेणिकधारिण्योः पुत्रो मेघकुमारः सपरिवारः समवसरणं गतः । इन्द्रो महावीरं स्तौति । यतः
"सद्धर्मवीजवपनानघकौशलस्य
यल्लोकबान्धव ! तवापि 'खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु
सूर्याशवो मधुकरीचरणावदाताः॥१॥-वसन्ततिलका मीरोः सतस्तव कथं त्वमरेश्वरोऽसौ
वीरोष्यमित्यनवधाय चकार नाम? । मृत्योर्न हस्तपथमेत्य बिभेति वीर
स्त्वं तस्य गोचरमपि व्यतियाय लीनः ॥ २॥"-वसन्त० इति । ततः श्रीवीरजिनदेशनया प्रतिबुद्धो मुक्तकलत्राष्टको गृहीतव्रतस्तस्यामेव रात्रौ बहिनिर्गच्छद्भिरन्तः प्रविशद्भिश्च साधुभिस्तथा सङ्घटितोऽसौ (यथा) क्षणमपि निद्रां न प्राप । चारित्रे भग्नपरिणामः प्रभाते वीरसमीपं गतः । वीरेण प्रतिबोधितः, तथाहि-इतो भवात् हे मेघ ! त्वं 'वैतान्यगिरौ सुमेरुनामा गज आसीः । दावानलभीतस्तटाके प्रविष्टः पङ्के मनो वैरिगजेन कदर्थितो मृत्युं गतः । ततो 'विन्ध्याचले' गजो बभूव मेरुप्रभनामा । अन्यदा दावानलं दृष्ट्वा जातजातिस्मृतिस्तदा योजनमानं मण्डलमेकं त्वमकार्षीः । त्रिकृत्वः शुद्धं कृतं तृणदुमाणामपनयनेन । ग्रीष्मे दावानले लग्ने बहुजीवैस्तन्मण्डलं भृतम् । त्वमपि तत्रागत्यास्थाः, कर्णमूलकण्डूयनार्थ स्वकीयमेकपादमुत्पाटयाञ्चक्रिषे । तत्रैकः शशकः समेत्य स्थितः । कृपया त्वं पादं तथैवमरक्षः। साधेदिनद्वये गते दवः शान्तः । जीवाः स्वस्थानं गताः । त्वं गिरेः शृङ्गमिव भूमावपतः । दिनत्रयान्ते मृत्वा कृपाप्रसादतो मेघकुमारो जातः । तदा त्वं तिर्यग्भवे न दूनः, अधुना
१ अन्न आदिशब्दः प्रकारार्थः। यतः
"सामीप्ये च व्यवस्थायां, प्रकारेऽवयवे तथा ।
चतुष्वर्थेषु मेधावी, आदिशब्दं च लक्षयेत् ॥ १॥" सद् यथा-प्रामादौ घोषः, समीपे इत्यर्थः । अवस्थायां ब्राह्मणादयः इति अनवच्छिन्नसन्तानाः, क्रमेण व्यवस्थिता इत्यर्थः २ प्रकारे देवदत्तादयः, देवसदृशाः३। अवयवे स्तम्भादयो गृहाः, स्तम्भावयवा इत्यर्थः ४॥
२ अकृष्टानि क्षेत्राणि । ३ धूकेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org