________________
श्रीजैनधर्मवरस्तोत्रम् गृह्णाति, तावत् पृष्ठानुगामिना शशकेन व्याघ्रो गलं गृहीत्वा पातितः । चतुःपादैराक्रम्य व्याघ्रोपरि शशकः स्थितः । सर्वेऽपि लोकाः कौतुकं भयं च प्राप्ताः। शशकाक्रान्तो व्याघ्रो दीनवरं करोति । इतश्चैकेन नरेणागत्य प्रोक्तम्-भो शशक ! अत्र प्रदेशे आचार्याः चतुर्ज्ञानशालिनस्तिष्ठन्ति । ते त्वां शब्दापयन्ति, एहि एहि शीघ्रम् । एतद् वचनं श्रुत्वा शशको गृहीतगलव्याघेण सह सूरीणां समीपे विनयं कृत्वा स्थितः । सर्वलोकैः सह भूपोऽपि तत्रागतः । अहो महदाश्चर्य किं ज्ञायते ? एतत् किम् । अथ सूरयः शशकं कथयन्ति-भो शशक: मुश्च मुञ्च एनं वराकं व्याघ्रम् , ख दयापरोऽसि, ज्ञातजैनधर्मतत्वोऽसि, निजरूपं प्रकटीकुरु । यतः
"क्षान्तितुल्यं तपो नास्ति, न सन्तोषात् परं सुखम् । नास्ति तृष्णापरो व्याधि-नं च धर्मो दयासमः ॥१॥अनु० मक्षिकाः क्षतमिच्छन्ति, क्षतमिच्छन्ति वायसाः।
दुर्जनाः कलिमिच्छन्ति, सन्धिमिच्छन्ति साधवः ॥२॥"-अनु० ततः सूरिगिरं श्रुत्वा चलकुण्डलाभिरामः तेजःपुञ्जविजितकामः सुरो जातः । इतरोऽपि व्याघ्र. रूपं त्यक्त्वा व्यन्तरः स्वाभाविकरूपो जातः । तदा भूपेन सूरयः पृष्टाः-एतन्निदानं कथयन्तु । ततो मधुरध्वनयः सूरयः प्रोचुः-भो राजन् ! पूर्वभवे 'अवन्ती'नगरे उम्भनामा वणिगभूत् मिथ्यात्वी । (स) अटिलनाम्नो जटिलस्य सेवां करोति । इतश्च तस्मिन्नेव नगरे कुम्भनामा व्यवहारी बभूव । तेन उम्भस्य जैनधर्मो दत्तः । उम्भः परमजैनः श्रावको बभूव । त्यक्ता अटिजटिलभक्तिः । तेनाटिलस्तस्य मारणोपायं विचारयति । यतः
"का प्रीतिः सह मार्जारैः ?, का प्रीतिरवनीपतौ?। गणिकाभिश्च का प्रीतिः १, का प्रीतिर्भिक्षुकैः सह ॥ १॥-अनु० यथा वृष्टिः समुद्रेषु, भुक्तस्योपरि भोजनम् । एवं प्रीतिः खलैः सार्ध-मुत्पन्नेऽर्थेऽवसीदति ॥ २॥-अनु० मा गाः पिशुनविश्रम्भं, ममायं पूर्वसंस्तुतः। चिरकालोपचीर्णोऽपि, दशत्येव भुजङ्गमः ॥३॥-अनु० द्विजिह्वमुद्वेगकरं, क्रूरमेकान्तदारुणम् ।।
खलस्याहेश्च वदन-मपकाराय केवलम् ॥ ४॥"-अनु० परं नावसरो लब्धः । अज्ञानकष्टं कृत्वा मरणं प्राप्य अटिलो जटिलो व्यन्तरो जातः । उम्भस्तु मृत्वा जैनधर्मप्रभावात् धर्मप्रियोऽयं समुत्पन्नः । कुम्भस्तु सौधर्मदेवलोकेऽयं देव उत्पन्नः । अतो हेतोः पूर्ववैरानुबन्धेनाटिलेन धर्मप्रियः एवं कदर्थितः । कुम्भदेवेन सर्वत्रास्य कूपाद्युपसों निवारितः । व्यन्तरस्तु धर्मप्रिय सोपसर्ग(र्गान्) न मुञ्चति । व्याघ्ररूपं विधाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org