________________
अथोत्तरम् -
श्रीभावप्रभसूरिकृतम्
हत्यारूढ पिता निपीतमदिरा किं क्रीत लोकस्त्वया
किं स्वत्राणसुता क लग्नहृदया पादोऽर्पितो यन्मयि ? ॥ १ ॥ " - शार्दूल०
"भूतग्रस्त मलीनशून्यहृदयो नित्यं पठस्यत्र किं किं ध्यानं प्रकरोषि निष्फलतरं ज्ञातो मदहिर्यतः । तत् त्यक्त्वेदमथ प्रयाहि जड ! रे लग्नो लयो नेश्वरे पश्ये
मम मानसं केमितरि ज्ञातो न यस्त्वं मया ॥ १ ॥" - शार्दूल ०
इति यवनशास्त्रेऽपि ॥
તે ધર્મના ઇહાં દ્રવ્ય—દૃષ્ટાન્ત ભાવ-દૃષ્ટાન્ત દેષાડઇ છઇ.
'बेनातट' नगरे धर्मप्रियनामा कश्चिद् वणिग्वरोऽस्ति । परं स च कीदृश: ? जैनधर्मरत उदारचित्तो गुणज्ञः सदा दानादिचतुर्विधं धर्म करोति । एकदा केनचिद् व्यन्तरेण गलं गृहीत्वा धर्मप्रियः कूपमध्ये पातितः । अप्राप्तजलात् कूपविचालात् केनचिदुद्धृत्य कूपबहिर्मुक्तः । पुनः पातितः पुनर्बहिर्मुक्तः, एवं सप्त वारान् कूपे पातितोऽपि बहिरेव दृष्टः, ततः क्रुद्धेन समुद्रे प्रक्षिप्तः । तस्मिन् समये तत्र प्रवहणं आगतम् । यानपात्रनरैर्गृहीत्वा तीरं प्रापितः, ततो गृहमागतः पुनः समुद्रे प्रक्षिप्तः प्रवहणनरैः स्थानं प्रापितः, एवं सप्त वारान् समुद्रे क्षिप्तः कुशलेन गृहं गत एव aasaa कुपितो धर्मप्रियस्य मारणोपायं व्यन्तरश्चिन्तयति । यतः— " मृगमीनसज्जनानां तृणजैलस्नेह विहितवृत्तीनाम् ।
लुब्धकधीवर पिशुना, निष्कारणवैरिणो जगति ॥ १ ॥ - आर्या
मसं मृगाणां दशनं गजानामत्यन्तरूपं युवतीजनानाम् । अर्थो नराणां फलितं द्रुमाणां
गुणाधिका वैकरा भवन्ति ॥ २ ॥" - उपजातिः
इतश्च वसन्तमासे समागते तन्नगराधिपो राजा पौरजनैः सह वने क्रीडितुं गतः । धर्मप्रियोऽपि तत्र गत उचितक्रीडां करोति । अकस्मात् तत्रैको व्याघ्र आगतः । यावद् धर्मप्रियं गले
Jain Education International
१ शार्दूलविक्रीडित-लक्षणम् -
"सूर्याश्वैर्यदि मस्सौ सततगाः शार्दूलविक्रीडितम् ।"
१ कामुके. ३ ' जलसन्तोषविहित०' इति पाठः श्रीभर्तृहरिकृते नीतिशतके ( लो० ५० ) । ४ विचार्यताम् -
"मांसं मृगाणां दशनौ गजानां, मृगद्विषां धर्म फलं द्रुमाणाम् । स्त्रीणां सुरूपं च नृणां हिरण्य- मेते गुणा वैरकरा भवन्ति ॥ १ ॥ " ५ उपजाति-लक्षणम्
"स्यादिन्द्रवज्रा यदि तौ जगौ ग, उपेन्द्रवज्रा जतजास्ततो गौ । अनन्तरोदीरित लक्ष्मभाजी, पादौ यदीयावुपजातयस्ताः ॥ १ ॥ "
For Private & Personal Use Only
www.jainelibrary.org