________________
९८
श्रीजैनधर्मवरस्तोत्रम् प्रवरैः षडभिर्दकारैः परं-केवलं अयमेव दुरितराक्षसो ग्रस्तः-भक्षितः । कथंभूतो दुरितराक्षसः ? आत्तः-गृहीतो भक्षितो लोको येन स इति । पुनः कथं० १ दुरात्मा-दुष्टात्मा । अत्र दृष्टान्तः दाने श्रीऋषभजिनजीवधनसार्थवाहवत् । यतः (पद्मानन्दमहाकाव्ये)
"धनस्य नव्यैः सुरभिस्वभावैः, क्रीडागतकोडमृगेन्दुगौरैः। .
पतद्ग्रहः स्त्यानघृतैरशोभि-ब्रह्माण्डमाण्डं ने भृतं यशोभिः ॥१॥"-उप० . सवैया तेईसा २३सो धन सारथवाह धनो जगि साधुकौं आपनै थान बुलाये थीनेसे घृतके षो(घ)ट अबोटसे मोटेसे पात भरे विहराए । मानसैं दानसैं निर्मल भावसैं निर्मल सुंदर सम्यक्त्व पाये
दान बडो भावप्रभ कहै जगि दान तित्थंकरगोत बंधाए ॥१॥ इति । दयायां हरिवलमात्स्यिकादिवत् इति । दमने
"ऑषि म मींचसी मिंच मन नयण निहाली जोइ
अप्पो अप्पा पींचीइ तो अवर न दूजो कोई ॥ १॥" वेश्यया दत्तशिरष्टुंबकः (१) कुटिलजटिलः प्रतिबोधित इति । दर्शने कृष्णादिवत् । तथाहि'द्वारवत्यां' संयमग्रहणाक्षमः कृष्णवासुदेवोऽस्ति । यः कश्चिद् दीक्षा लाति तस्य दीक्षामहोत्सवं करोमीति नियमवान् कृष्णः स्वपुत्रीं निजोत्सङ्गे संस्थाप्य पृच्छति-वत्से! त्वं स्वामिनी दासी वा भविष्यसि ? सा वक्ति-स्वामिनीति । तदा नेमिजिनान्तके महोत्सवेन स तस्या दीक्षां दापयति । एवं क्रियमाणाय कृष्णाय ज्ञातवार्तयाऽन्यया पुत्र्या निवेदितं यतोऽहं दासी भविष्या. मीति । तेन चिन्तितम्-अन्याः सर्वा एवं मा भुवन् । ततस्तेन वीरो नाम कुविन्दो
१ पापरक्षः । २ सुरभिः-सुगन्धः स्वभावो येषां तैः। ३ क्रीडाथै गत उत्सङ्गे मृगो यस्य एवंविधो य इन्दुःचन्द्रः तद्वद् गौरैः-शुभैः। ४ नुः वितर्के । ५ तात्पर्यम्
स धनसार्थवाहो धन्यो जगति येन साधवः स्वस्थाने आमन्त्रिताः स्त्यानघृतघटैरुच्छिष्टतारहितैः बृहन्ति पात्राणि भूत्वा प्रतिलाभयाञ्चके । मानेन दानेन निर्मलभावेन निर्मलं सुन्दरं सम्यक्त्वं प्रापत्
दानं महत् (इति) भावप्रभः कथयति (यतः) जगति दानं तीर्थङ्करगोनं बन्धयति ॥ ६ तात्पर्यम्
. अक्षिणी मा निमीलय निमीलय मनः नयनाभ्यां निभालय।
(यदि) भारमा आत्मानं आकर्षयति तर्हि अपरोऽन्यो न कोऽपि ॥ ___कुं विन्दतीति कुविन्दः-तन्तुवायः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org