SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसरिकृतम् तस्मिन्नेव गुणप्रियगृहे शुनीपुत्रो जातः । नित्यममेध्यमश्नाति । तत्र ज्ञानशाली सूरिराययौ । तं मण्डलं दृष्ट्वा जगौ-भो भषण ! त्वं स्मरसि सुन्दरपूर्वभवम् । इति श्रुत्वा जातजातिस्मृतिः पूर्वकर्म निन्धमानः सूरिपादौ श्रितः। सूरिणा सम्यक् प्रकारेण परमेष्ठिपूर्वकं धर्मध्यानं ग्राहितः । पाक्षिकमनशनं कृत्वा शुभध्यानेन मृत्वा पुनर्गुणप्रियस्यैव पुत्रो जातः । धर्ममतिरिति नाम दत्तम् । प्राप्तयौवनो मुनिसङ्गतो ज्ञाततत्त्वो लिखापितसिद्धान्तपुस्तकः । यतः "लेखयन्ति नरा धन्या, ये जैनागमपुस्तकान् । ते सर्वे वाङ्मयं ज्ञात्वा, सिद्धिं यान्ति न संशयः॥१॥"-अनु० ये लेखयन्ति जिनशासनपुस्तकानि व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते ते मत्ये-देव-शिव-शर्म नरा लभन्ते ॥ २॥-वसन्त० न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । नैवान्धतां बुद्धिविहीनतां च, ये लेखयन्त्यागमपुस्तकानि ॥३॥-उप० बाल-स्त्री-मन्द-मूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थे तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥ ४॥"-अनु० इति । तेन कृतज्ञानभक्तिः सन्मानितसाधुसङ्घः श्रावकव्रतानि प्रपाल्य सम्यगतिचारान् सम्भाल्य मृत्वा 'अच्युते' देवोऽजनि 'महाविदेहे' प्राप्तनुभवो मोक्षं गमिष्यतीति ज्ञानोपरि कथानकम् । इति त्रिंशत्तमवृत्तार्थः ॥३०॥ सूत्रम् दानं दया दमन-दर्शन-देवसेवा दोषापहार इति षट् प्रवरा दकाराः। तैः सेवितैर्दुरितराक्षस आत्तलोको ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ व्याख्या-दानमिति । इह लोके हे प्रभो! षट् दकाराः प्रवरा वर्तन्ते । ते के तानाहदानं दया दमनं-पञ्चेन्द्रियविषयवर्जनं दर्शन-सम्यक्त्वं देवसेवा-जिनपूजा । दमनादिपदानां 'द्वन्द्वः' । दोषापहारः-कुलिङ्गिसंसर्गादि दोषत्यजनं इति । तुः अवधारणे । सेवितैः तैः अमीभिः जैन० स्तो० १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy