________________
श्रीजैनधर्मवरस्तोत्रम् "धन्या भारतवर्षसम्भवजना यद् यत्र काले कलौ
नोतीर्थेश्वरकेवले निरवधौ नश्यन्मनःपर्यये । त्रुट्यत्सूत्रविशेषसंपरिनदद्दौर्गत्यदुःखास्पदे ।
श्रीजैनेन्द्रवचोऽनुरागवशतः कुर्वन्ति धर्मोद्यमम् ॥ १॥"-शार्दूल० सात्कारपदरहितास्तु सर्वेऽपि मिथ्यादृष्टयः । अतः षट् दर्शनान्याह-जैनं स्याद्वादी आर्हतः १ इति, बौद्धं शून्यवादी सौगतः २ इति, शैवशासनं नैयायिकः अक्षपादो योगः ३ इति, साङ्ख्यं कापिलः ४ इति, वैशेषिकं कणाद औलूक्यः ५ इति, जैमिनीयं भाट्टदर्शनं ६ इति । नैयायिकवैशेषिकयोरभेदं केचिन्मन्यन्ते तदा पश्चैवास्तिकवादिनः । ततः षष्ठं नास्तिकमतं बार्हस्पत्यः नास्तिकः चार्वाका लौकायतिकः इति षड्दर्शनानां एकैकस्य नामान्तराणि ज्ञेयानि । अत्र दृष्टान्त:__'मथुरा'यां पुरि गुणप्रियनामा व्यवहारी मनीनाम्नी प्रिया । तयोः पुत्रः सुन्दराहतो वर्तते । स च दुर्विनीतो दुष्टाशयो नास्तिकमतिर्धर्मविमुखोऽस्ति । यतः (षड्दर्शनसमुच्चये श्लो० ८२)
"पिब खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्न ते ।
न हि भीरु गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ १॥"-वैतालीयम् गुणप्रियस्तु जैनधर्मरक्तः स्वगृहाग्रे धर्मशालायां स्थितान् साधून सेवते स । सुन्दरस्तु तेषां विरुद्धवचनं जल्पति । यदा साधव आगमघोषं कुर्वन्ति कारयन्ति तदा स वक्ति-एते वायसाः क्रां क्रां कुर्वन्ति, श्वाना इव हाऊ हाऊ कुर्वन्ति । एकदा साधुषु बहिभूमिगतेषु पुस्तकमादायानेनावकरे क्षिप्तम् । आयाता मुनयः, पुस्तकं न दृष्टम् । ज्ञातेन जनकेन हकितोऽसौ तत आनीतं पुस्तकम् । कथितं च किमेतस्य ज्ञानस्साशातनां करोषि? महापापाय भविष्यति । यतः
"ज्ञानस्य ज्ञानिनां चैव, निन्दा-प्रद्वेष-मत्सरैः।
उपघातैश्च विनैश्च, ज्ञाननं कर्म बध्यते ॥ १॥"-अनु० तदा दुर्विनीत उवाच-किं कागले कञ्जले वा ज्ञानं प्रविष्टमस्ति । एवं देशनानोऽसौ विद्युपातात् मृतः काकोऽभवत् । नित्यं विष्ठामत्ति । एकदा श्येनेन गलं गृहीत्वा निपातितो मृत्वा
१ 'दि भवद्दौ०' इति ख-पाठः। २ सप्तापि नयाः ।
३ स्याद्वादरखाकरावतारिकायां भट्ट-प्रभाकर-कणभक्षा-ऽक्षपाद-कपिला इत्यस्यार्थः। भट्ठो-जैमिनिः निष्कर्ममीमांसाकृत् १, प्रभाकरः-सकर्ममीमांसाकृत् २, दुर्गसिंहापरनामा वैशेषिकाचार्यः ३, अक्षपादः नैयायिकः ४, कपिलसूनुः साङ्ख्य इति।
४'य तेना' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org