________________
श्रीभावप्रभसरिकृतम् अत्र तथ्योपरि दृष्टान्त:-कसिंश्चिद् ग्रामे खी(क्षी)रकदम्बोपाध्यायो निजपुत्रं पर्वताख्यं तथा वसुनामानं राजपुत्रं तथा नारदं ऋषिं च पाठयति । एकदा कुड्यान्तरतो जैनसाधुमुखादेषु द्वौ नरकगामिनाविति श्रुत्वा क्षीरकदम्बकेन चिन्तितम्-राजपुत्रस्तु नरकगामी "राज्यं नरकान्तं" इत्युक्तेः, तेन द्वौ परीक्ष्यते । ततोऽलक्तरसेन भृतश्चर्मच्छगलो नारदाय समर्पितो यत्र कोऽपि न पश्यति तत्र त्वया हन्तव्य इत्युक्त्वा । तमादाय गतो वनान्तरे नारदश्चिन्तयितुं लमः। अत्र सिद्धाः केवलिनोऽहं च सर्वेऽपि पश्यन्ति, अतो न हन्तव्य एव, एत्य गुरवेऽर्पितः। कथितं च-विधिना निषेधः प्राप्तः । ज्ञातम्-सुगतिभागसौ । तथैव पर्वताय समर्पितः। तेन वनान्तरे हतः । ज्ञातम्-नरकगामी । उपाध्यायो व्रतं गृहीत्वा सुगतिं ययौ । ततो वसु पो जातः सत्यवादी लोकेऽभूत् ।
एकदा नारदः पाठकशाला समेतः । तदा पर्वतोजाः-बोत्कटा यष्टव्या इति द्विजानध्याप. यति । नारदेन गदितम्-अजाः-सप्तवर्षत्रीहयः, न जायन्ते वापिता इति अजाः; अत्र गौणार्थः, न तु मुख्यार्थः । द्वयोर्विवादे प्रभाते सकललोकसमक्षं पृष्टो वसुनृपः पर्वतदाक्षिण्यात् कूटसाक्षी बभूव । तदा देवेन सिंहासनात् पातितो मृत्वा नरकं जगाम । प्रशंसितो लोकैनारदः सत्य. वाक् क्रमेण सुगतिं ययौ । इति एकोनत्रिंशत्तमकाव्यार्थः ॥ २९ ॥
अथ पुस्तकमाश्रित्य धर्ममाहसूत्रम्
सद् बृंहितं प्रवरपुस्तकमस्तपापं
पुण्योपकारि परमं परमैः प्रपूज्यम् । सम्भालनादिकरणाच्छिवदं त्वयोक्तं
ज्ञानं त्वयि स्फुरति विश्वविकाशहेतुः ॥ ३०॥ __ व्याख्या-सदिति । अयि इति कोमलामत्रणे । हे प्रभो! त्वया प्रवरपुस्तक-सुवर्णाद्यक्षरमयज्ञानकोशलक्षणं शिवदं-मुक्तिदमुक्तं-कथितम् । कस्मात् ? सम्भालनादिकरणात् हेतोः । कथंभूतं प्रवरपुस्तकम् ? सत्-निरन्तरं अर्चितं वा बृंहितं-वृद्धिं नीतं लिखितेन लिखापनेन चेति । पुनः कथं० प्र० पु. १ अस्तपापं-गतपापं, धर्मपुस्तकं-धर्मपुस्तकस्योपष्टम्भदायकं अन्यपुस्तकमपि नोपेक्षणीयम् । पुनः कथं० प्र० पु० १ 'पुण्योपकारि' पुण्याय-धर्माय उपकरोतीत्येवंशीलम् । पुनः
१ 'कस्मिन् ग्रामे' इति स्व-पाठः। २ 'भूतचर्म०' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org