________________
१२
सूत्रम् -
श्रीजैनधर्मवरस्तोत्रम्
तत्त्वानि तीर्थकर तीर्थ-तपोधनाश्च तथ्यं च तात्त्विकतपः खलु षट्तकारी ।
तस्यां रतो भवति मनु नरो हि हित्वा चित्रं विभो ! यदसिकर्म विपाकशून्यः ॥ २९ ॥
व्याख्या - ( तत्वानीति ) । खलु - निश्चितं एषा षट्तकारी वर्तते । षण्णां तकाराणां समाहारः षट्तकारी । के ते तकाराः । तानाह - तत्त्वानि - जीवाजीवादिकानि नव, तीर्थङ्कराः - चतुविंशतिर्जिनाः पञ्चदशकर्मभूमिसंस्थिता अपि, तीर्थानि - शत्रुञ्जयः १ रैवताचलः २ समेतशिखरी ३ अष्टापदः ४ तीर्थङ्करकल्याणकस्थानानि महामुनीनामनशनादिकस्थानानि यथाऽन्निकासुताचार्यसिद्धिगमनं स्थानं प्रयाग इति तीर्थं जातमित्यादि तीर्थानि शाश्वतानि अशाश्वतानि, तपोधनाः- मुनयः, तथ्यं - सत्यवाकू, तात्त्विकतपः - आकाङ्क्षादिरहितं निर्मलं तपः । चकारौ समुयार्थी । हे विभो ! - हे युगादिदेव ! हि-निश्चितं यतः - यस्मात् कारणात् नरः - भव्यपुरुषः तस्यां षट्तकारिकायां रत - आसक्तः सन् मञ्जु शीघ्रं 'विपाकशून्यो' भवति विपाकेन - ज्ञानावरणाद्यष्टकफलोदयेन शून्यः - रहित इत्यर्थः । किं कृत्वा ? असिकर्म हित्वा त्यक्त्वा असिवत् च तत् कर्म च असिकर्म तीक्ष्णत्वात् भेदच्छेदकारित्वात् खड्गोपमानं युक्तं, दुस्सहं कर्म । कथं कर्म ? चित्र - विचित्रं नानाप्रकारमिति ॥
प्रवचनसारोद्धारे ( द्वा० ४१, गा० ४५१ - ४५२ ) तु यथा
"अन्ना १ कोह २ मय ३ माण ४ लोह ५ माया ६ रई ७ अरई ८ य ।
निद्दा ९ सोय १० अलियवयण ११ चोरिभा १२ मच्छर १३ भया १४ य ॥ ४५१ ॥
पाणिवह १५ पेम १६ कीलापसंग १७ हासा १८ य जस्स इय दोसा ।
अहारस्स वि पणडा नमामि देवाहिदेवं तं ॥ ४५२ ॥”
Jain Education International
[ अज्ञानं क्रोधः मदः माना लोभः माया रतिः विरतिश्च । निद्रा शोकः भलीकवचनं चोरिका मत्सरः भयं च ॥ प्राणिवधः प्रेम क्रीडाप्रसङ्गः हासः च यस्य इमे दोषाः । अष्टाशापि प्रणष्टा नमामि देवाधिदेवं तम् ॥ ]
१ श्रीवज्रस्वामिनोऽनदानस्थाने पर्वतो 'स्थावर्त' नाम तीर्थ जज्ञे, यतः श्रीहेमाचार्याः परिशिष्टपर्वणि (स० १३, श्लो० १७७-१७८ ) प्राहु:
" शक्रः प्रदक्षिणीच, तं गिरिं सरथस्तदा । वृक्षादीन् नमयनुच्चैः, स्वदेहमिव भक्तितः ॥ १ ॥ विनम्रा एव तेऽथापि, विद्यन्ते तत्र पर्वते । ततस्तस्याभिधा जज्ञे, 'रथावर्त' इति क्षितौ ॥ २॥"
For Private & Personal Use Only
www.jainelibrary.org