________________
श्रीभावप्रभसरिकृतम् सङ्घोऽपि चमत्कृतः । तस्या अधीनो जातः । अथ तस्याः पतिमैत्रनामा स च मिथ्यात्वी अज्ञानी नित्यं मृत्पिण्डान् पार्थिवान् करोति कुदेवादिभक्तः। एकदा दैवात् जटिलस्य अलावुभाण्ड तेन भग्नं, ततः कुपितेन जटिलेन काम्बडिकया ताडितो नेत्रोपरि गतनेत्रो मैत्रो विप्रो जातः । स्त्रिया प्रोक्तम्-हे प्रिय! दृष्टं कुसङ्गफलम् ? । यतः
"कुदेशं च कुमित्रं च, कौषधं च कुसौहृदम् ।। कुभायों च कुराज्यं च, दूरतः परिवजयेत् ॥१॥-अनु० वैद्यं पानरतं नटं कुपठितं मूर्ख परिव्राजकं
योधं कापुरुषं विटं विवयसं स्वाध्यायहीनं द्विजम् । राज्यं बालनरेन्द्रमत्रिरहितं मित्रं छलान्वेषिणं
भार्या यौवनगर्वितां पररतां नेच्छन्ति ये पण्डिताः॥२॥-शार्दूल. खरं श्वानं गजं मत्तं, रण्डां च बहुभाषिणीम् ।
कुराजानं कुमित्रं च, दूरतः परिवर्जयेत् ॥ ३ ॥"-अनु० ततो जैनधर्मो ग्राहितः, परमजैनो जातः, क्रमेण गृहेऽपि महती समृद्धिर्जाता ।
एकदा विप्रपङ्को गत्वा स्थितः । विप्रैः प्रोक्तम्-अहो यतिमिर्गतनेत्रोऽपि मैत्रोऽयं प्रतिलेखितः। तदा मैत्रेण प्रोक्तम् अहं दिव्यनेत्रो भवानि जैनधर्मप्रभावात् , यूयं गताक्षा भवत । तथैव जातम् । सर्वे पादौ श्रिताः जैनधर्म ग्राहिताः, शासनदेवतया सर्वेऽपि दिव्यनेत्राः कृताः। गरटा मैत्रश्चायुःक्षये मृत्वा सुरौ भूत्वा मानवभवं प्राप्य मुक्तिं गमिष्यते ॥ इति षड्विंशतितमवृत्तार्थः सम्पूर्णः ॥ २६ ॥
सूत्रम्
क्षेत्राणि कानि तव धर्मनृपस्य सप्त . चैत्यादिकानि भरतः पुनराह तातम् । सत्यं च तैः परिचितैर्हि पुराऽधुना त्वं
शालत्रयेण भगवन्नभितो विभासि ॥ २७ ॥ व्याख्या-क्षेत्राणीति । भरतः प्राह-हे प्रभो! तव धर्मनृपस्य कानि क्षेत्राणि वर्तन्ते ? प्रभुः प्राह-हे चक्रिन् ! चैत्यादिकानि क्षेत्राणि सप्त । पुनः भरतः तातं प्राह-हे प्रभो! स्वया यत् उक्तं तत् सत्यं, त्वदुक्तमेवाहं जानामि, श्रद्दधामि चेत्यर्थः । चः समुच्चयार्थः। हि-निश्चितं हे भगवन् ! अधुना त्वं अमितः सर्वतः सालत्रयेण विभासि-रोचसे । कैः ? पुरा-पूर्वभवे तैः
१ तुम्बपात्रम् । २ 'साल.' इत्यपि पाठः। ३ 'श्रद्दधिम' इति क-पाठः । जैन. स्तो० १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org